________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् यगोचरात् कर्तृतया प्रसिद्धादेहात्तत्क्रियाफलस्वर्गादेर्भोक्तुरात्मनोऽन्यत्वं प्रामाणिकानां प्रसिद्धमेव। तथाऽहमर्थात् ज्ञातुरपि विलक्षणस्साक्षी प्रत्यगात्मोत प्रतिपत्तव्यम् । एवमविक्रियानुभवस्वरूपस्यैवाभिव्यञ्जको जडोऽप्यहंकारस्वाश्रयतया तमभिव्यनक्ति। आत्मस्थतयाऽभिव्यङ्गयाभिव्यञ्जनमभिव्यञ्जकानां स्वभावः।दर्पणजलखण्डादिर्हि मुखचन्द्रबिम्बगोत्वादिकमात्मस्थतयाऽभिव्यनक्ति।तत्कृतोऽयं 'जानाम्यहम्'इति भ्रमः। स्वप्रकाशाया अनुभूतेः कथमिव तदभिव्यङ्गन्यजडरूपाहङ्कारेणाभिव्यङ्गयत्वमिति मा वोचः, रविकरनिकराभिव्यङ्गयकरतलस्य तदभिव्यञ्जकत्वदर्शनाता जालकरन्ध्रनिष्क्रान्तामणिकिरणानां तदभिव्यङ्गयेनापि करतलेन स्फुटतरप्रकाशो हि दृष्टचरः, यतोऽहं जानामीति ज्ञाताऽयमहमर्थश्चिन्मात्रात्मनो न पारमार्थिको धर्मः; अत एव सुषुप्तिमुक्त्योर्नान्वेति । तत्र ह्यहमर्थोल्लेखविगमेन स्वाभाविकानुभवमात्ररूपेणाऽत्माऽवभासते । अत एव सुप्तोत्थितः कदाचिन्मामप्यहं न ज्ञातवानिति परामृशति । तस्मात्परमार्थतो निरस्तसमस्तभेदविकल्पनिर्विशेषचिन्मात्रैकरसकूटस्थनि - त्यसंविदेव भ्रान्त्या ज्ञातज्ञेयज्ञानरूपविविधविचित्रभेदा विवर्तत इति तन्मूलभूताविद्यानिबर्हणाय नित्यशुद्धबुद्धमुक्तस्वभावब्रह्मात्मैकत्वविद्यापतिपत्तये सर्वे वेदान्ता आरभ्यन्ते इति ॥
---( महासिद्धान्तः)..तदिदमौपनिषदपरमपुरुषवरणीयताहेतुगुणविशेषविरहिणामनादिपापवासनादूषिताशेषशेमुषीकाणामनधिगतपदवाक्यस्वरूपतदर्थयाथात्म्यप्रत्यक्षादिसकलप्रमाणत्ततदितिकर्तव्यतारूपसमीचीनन्यायमार्गाणां विकल्पासहविविधकुतर्ककल्ककल्पितमिति, न्यायानुगृहीतप्रत्यक्षादिसकलप्रमाणवृत्तयाथात्म्यविद्भिरनादरणीयम् ॥
१. मुखचन्द्रेति. पा... श्री.सारसूरि ज्ञानमन्दिर
...
..
For Private And Personal Use Only