SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. १.] जिज्ञासाधिकरणम्. यैव प्रकाशमानत्वात् । न ह्यनुभूतिर्वर्तमाना घटादिवदप्रकाशा दृश्यते,येन परायत्तप्रकाशाऽभ्युपगम्येत ॥ ___ अथैवं मनुषे उत्पन्नायामप्यनुभूतौ विषयमात्रमवभासते 'घटोऽनुभूयते' इति। न हि कश्चित् 'घटोऽयम्' इति जानन् तदानीमेवाविषयभूतामनिदंभावामनुभूतिमप्यनुभवति । तस्माद्धटादिप्रकाशनिष्पत्तौ चक्षुरादिकरणसन्निकर्षवदनुभूतेस्सद्भाव एव हेतुः। तदनन्तरमर्थगतकादाचित्कप्रकाशातिशयलिङ्गेनानुभूतिरनुमीयते।एवं तनुभूतेरजडाया अर्थवज्जडत्वमापद्यत इति चेत् किमिदमजडत्वं नाम ? । न तावत्स्वसत्तायाः प्रकाशाव्यभिचारः, सुखादिष्वपि तत्सम्भवात् : नहि कदाचिदपि सुखादयस्सन्तो नोपलभ्यन्ते अतोऽनुभूतिस्स्वयमेव नानुभूयते, अर्थान्तरं स्पृशतोऽङ्गल्यग्रस्य स्वात्मस्पर्शवदशक्यत्वादिति ॥ तदिदमनाकलितानुभवविभवस्य स्वमतिविजृम्भितम् , अनुभूतिव्यतिरेकिणो विषयधर्मस्य प्रकाशस्य रूपादिवदनुपलब्धेः, उभयाभ्युपेतानुमृत्यैवाशेषव्यवहारोपपत्तौ प्रकाशाख्यधर्मकल्पनानुपपत्तेश्च । अतो नानुभूतिरनुमीयते । नापि ज्ञानान्तरसिद्धा । अपि तु सर्व साधयन्त्यनुभूतिस्वयमेव सिध्यति । प्रयोगश्च-अनुभूतिरनन्याधीनस्वधर्मव्यवहारा, स्वसम्बन्धादर्थान्तरे तद्धर्मव्यवहारहेतुत्वात् । यस्खसम्बन्धादर्थान्तरे यद्धर्मव्यवहारहेतुस्स तयोस्स्वस्मिन्ननन्याधीनो दृष्टः, यथा रूपादिश्चाक्षुषत्वादौ । रूपादिर्हि पृथिव्यादौ स्वसम्बन्धाच्चाक्षुषत्वादि जनयन् स्वस्मिन्न रूपादिसम्बन्धाधीनश्चाक्षुषत्वादौ । अतोऽनुभूतिरास्मनः प्रकाशमानत्वे प्रकाशत इति व्यवहारे च स्वयमेव हेतुः॥ सेयं स्वयंप्रकाशाऽनुभूतिर्नित्या च, प्रागभावाधभावात् । तदभावश्च स्वतस्सिद्धत्वादेव । न ह्यनुभूतेस्स्वतस्सिद्धायाः प्रागभावस्खतोऽन्यतो वाऽवगन्तुं शक्यते । अनुभूतिस्वाभावमवगमयन्ती, सती ताव For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy