________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२
शारीरकमीमांसाभाष्ये
[अ. १.
भेदस्तद्धर्मस्तस्यापीत्यनवस्था । किंच जात्यादिविशिष्टवस्तुग्रहणे सति भेदग्रहणम्, भेदग्रहणे सति जात्यादिविशिष्टवस्तुग्रहणमित्यन्योन्याश्रयणम् । अतो भेदस्य दुर्निरूपत्वात्सन्मात्रस्यैव प्रकाशकं प्रत्यक्षम् ॥
Acharya Shri Kailassagarsuri Gyanmandir
किंच 'घटोऽस्ति' 'पटोऽस्ति' 'घटोऽनुभूयते' 'पटोऽनुभूयते ' इति सर्वे पदार्थास्तत्तानुभूतिघटिता एव दृश्यन्ते । अत्र सर्वासु प्रतिपत्तिषु सन्मावमनुवर्तमानं दृश्यत इति तदेव परमार्थः । विशेषास्तु व्यावर्तमानतया अपरमार्थाः, रज्जुसर्पादिवत् । यथा रज्जुरधिष्ठानतयाऽनुवर्तमाना परमार्था सती; व्यावर्तमानास्सर्पभूदलनाम्बुधारादयो ऽपरमार्थाः। ननु चरज्जुसर्पादौ 'रज्जुरियं न सर्पः' इत्यादिरज्ज्वाद्यधिष्ठानयाथार्थ्यज्ञानेन बाधितत्वात्सर्पादेरपारमार्थ्यम्, न व्यावर्तमानत्वात् । रज्ज्वादेरपि पारमार्थ्य नानुवर्तमानतया, किंत्वबाधितत्वात् । अत्र तु घटादीनामवाधितानां कथमपारमार्थ्यम् ? उच्यते, घटादौ दृष्टा व्यावृत्तिस्सा किंरूपेति विवेचनीयम् । किं घटोsस्तीत्यत्र पटाद्यभावः । सिद्धं तर्हि घटोऽस्तीत्यनेन पटादीनां aftaraम् । अतो वाधफलभूता विषयनिवृत्तिर्व्यावृत्तिः । सा व्यावर्तमानानामपारमार्थ्यं साधयति । रज्जुवत् सन्मात्रमवाधितमनुवर्तते । तस्मात्सन्मात्रातिरेकि सर्वमपरमार्थः । प्रयोगश्च भवति-सत्परमार्थः, अनुवर्तमानत्वात्, रज्जुसर्पादौ रज्ज्वादिवत् । घटादयोऽपरमार्थाः, व्यावर्तमानत्वात्, रज्ज्वाद्यधिष्ठान सर्पादिवत् - इति । एवं सत्यनुवर्तमानाऽनुभूतिरेव परमार्थः सैव सती ॥
ननु च - सन्मात्रमनुभूतेर्विषयतया ततो भिन्नम् । नैवम् ; भेदो हि प्रत्यक्षाविषयत्वाद्दुर्निरूपत्वाच्च पुरस्तादेव निरस्तः । अत एव सतोऽनुभूतिविषयभावोऽपि न प्रमाणपदवीमनुसरति । तस्मात्सदनुभूतिरेव ।।
सा च स्वतस्सिद्धा, अनुभूतित्वात्। अन्यतस्सिद्धौ घटादिवदननुभूतित्वप्रसङ्गः । किंच अनुभवापेक्षा चानुभूतेर्न शक्या कल्पयितुम्, सत्त
For Private And Personal Use Only