________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
(श्रीशारीरकमीमांसामाध्ये सर्वव्याख्यानाधिकरणम् ॥९॥). एतेन सर्वे व्याख्याताव्याख्याताः । १॥४॥२९॥
एतेन पादचतुष्टयोक्तन्यायकलापेन, सर्ववेदान्तेषु जगत्कारणमतिपादनपरास्सर्वे वाक्यविशेषाश्चेतनाचेतनविलक्षणसर्वज्ञसर्वशक्तिब्रमप्रतिपादनपरा व्याख्याताः । 'व्याख्याताः'इति पदाभ्यासोऽध्यायपरिसमाप्तियोतनार्थः ॥ २९ ॥
इति श्रीशारीरकमीमांसाभाष्ये सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसामान्ये प्रथमस्याध्यायस्य चतुर्थः पादः॥४॥
॥ समाप्तश्चाध्यायः॥ वेदान्तसारे-एतेन सर्वे व्याख्याताव्याख्याताः॥ १"जन्माचस्य यतः" इत्यादिना एतदन्तेन न्यायेन सर्वे वेदान्ताः ब्रह्मपरा व्याख्याताः। द्विरुक्तिरध्यायपरिसमाप्तिद्योतनाय ॥ २९ ॥
इति वेदान्तसारे सर्वव्याख्यानाधिकरणम् ॥ ८ ॥ इति श्रीभगवद्रामानुजविरचिते वेदान्तसारे प्रथमस्याभ्यायस्य चतुर्थःपादः॥४॥
॥समाप्तश्चाध्यायः॥ वेदान्तदीपे-एतेन सर्वे व्याख्याताव्याख्याताः॥ २"यतो वा इ. मानि" इत्यादिष्दाहतेषु वाक्येषु १"जन्माद्यस्य यतः" इस्यादिनोकन्यायकला. पेन सर्वे वेदान्ताः ब्रह्मपरा ब्याख्याताः । पदाभ्यासोऽध्यायपरिसमाप्तिद्योतनार्थः ॥ २९॥
इति वेदान्तदीपे सर्वव्याख्यानाधिकरणम् ॥ ८॥ इति श्रीभगवद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य चतुर्थः पादः ॥४॥
॥ समाप्तश्चाध्यायः॥
१. शारी. १-१-२ ॥
२. ते. भू. १॥
For Private And Personal Use Only