________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
o
वेदान्तदीपे
[म... वेदान्तसारे-चमसवदविशेषात्।।१"अजामेकां...बहीः प्रजास्सृजमानाम्" इत्यत्र न तन्प्रसिद्धा प्रकृतिः कारणत्वेनोक्ता ; जन्माभावयोगमात्रेण न तस्या एव प्रतीतिः२ "अर्वाग्विलश्चमसः"इतिवत् प्रकरणे विशेषकाभावात् । २"यथेदन्तच्छिरः" इति हि चमसो विशेष्यते । यौगिकशब्दाद्विशेषप्रतीतिर्हि विशेषकापेक्षा ॥ ८॥
ज्योतिरुपक्रमा तु तथाह्यधीयत एके॥ज्योतिः ब्रह्म ब्रह्मकारणिका इयमजा । तथाहि ब्रह्मकारणिकाया एव प्रतिपादकमेतत्सरूपमन्त्रञ्च तैत्तिरीयाः अधीयते; ३"अणोरणीयान्महतो महीयान्" इत्यारभ्य ४"अतस्समुद्रा गिरयश्च" इत्यादिना सर्वस्य ब्रह्मण उत्पत्त्या तदात्मकत्वप्रतिपादनसमये५"अजामेकाम्" इति पठन्ति । अतस्तत्प्रत्यभिज्ञानादियं ब्रह्मकारणिकेति निश्चीयते ॥९॥
कल्पनोपदेशाच्च मध्वादिवदविरोधः।। कल्पना सृष्टिः, यथा “सू. र्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इति। "अस्मान्मायी सृजते विश्वमेतत्" इत्यादिना सृष्ट्युपदेशात् अजात्वब्रह्मकार्यत्वयोरविरोधश्च; प्रलयकाले नामरूपे विहायाचिद्वस्त्वपि सूक्ष्मरूपेण ब्रह्मशरीरतया तिष्ठतीत्यजात्वम् । स्ष्टिकाले नापरूपे भजमाना प्रकृतिः ब्रह्मकारणिका, यथा आदित्यस्य सृष्टिकाले वस्वादिभोग्यरसाधारतया मधुत्वं कार्यत्वञ्च, तस्यैव प्रलयकाले मध्वादिव्यपदेशानहसूक्ष्मरूपेणावस्थानमकार्यत्वञ्च मधुविद्यायां प्रतीयते ८"असौ वा
आदित्यो देवमधु" ९"नैवोदेता नास्तमेता एकल एव मध्ये स्थाता" इति; तद्वत् ॥१०॥
इति वेदान्तसारे चमसाधिकरणम् ॥ २ ॥
वेदान्तदीपे-चमसवदविशेषात्।। श्वेताश्वतरे १ "अजामेकां लोहितशुक्लकृष्णां बहीः प्रजास्सृजमानां सरूपाः । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" इत्यत्र किमजाशब्देन तन्त्रसिद्धा प्रकृतिरमिधीयते,उत ब्रह्मात्मिका--इति संशयः। तन्त्रसिद्धति पूर्वः पक्षः,१"अजामेका. म्" इत्यस्या अकार्यत्वप्रतीतेः, बहीनां प्रजानां स्वातम्येण कारणत्वश्रवणाच,
१, श्वे. ४-५ ॥ २.. ४-२-३ ॥ ६. तै. नारा. ६-१-३८ ॥
३. तै. नारा, ६-१०-१॥ ४.ते.नारा, ७. श्वे, ४.९ ॥ ६.१०.३॥ ५. ते. नारा. ६.१०-५॥ । ८. छा. ३.१.१॥९, छा. ३.११-१॥
For Private And Personal Use Only