SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ४.] चमसाधिकरणम् . किं तेजोबन्नरूपेण विकृतं ब्रह्मेवाजैकाः किंवा स्वरूपेणावस्थितमविकृतमिति । प्रथमः कल्पो बहुत्वानपायादेव निरस्तः । द्वितीयेऽपि १" लोहितशुक्लकृष्णाम् " इति विरुध्यते । स्वरूपेणावस्थितं ब्रह्म तेजोवनलक्षणमिति वक्तुमपि न शक्यते । तृतीये कल्पेऽप्यजाशब्देन तेजोबनानि निर्दिश्य तैस्तत्कारणावस्थोपस्थापनीयेत्यास्थेयम्। ततो वरमजाशब्देन तेजोबन्नकारणावस्थायाः श्रुतिसिद्धाया एवाभिधानम् । यत्पुनरस्याः प्रकृतेरजाशब्देन च्छागत्वपरिकल्पनमुपदिश्यत इति; तदप्यसङ्गतम्, निष्प्रयोजनत्वात्। यथा २" आत्मानं रथिनं विद्धि" इत्यादिषु ब्रह्मप्राप्त्युपायताख्यापनाय शरीरादिषु रथादिरूपणं क्रियते ; यथाचादित्ये बखादीनां भोग्यत्वख्यापनाय मधुत्वकल्पनं क्रियते; तद्वदस्यां प्रकृतौ च्छागत्वपरिकल्पनं कोपयुज्यते; न केवलमुपयोगाभाव एव, विरोधश्वः कृत्स्नजगत्कारणभूतायाः स्वस्मिन्ननादिकालसम्बद्धानां सर्वेषामेव चेतनानां निखिलसुखदुःखोपभोगापवर्गसाधनभूतायाः अचेतनाया: अत्यल्पप्रजास १. वे. ४. ५॥ 47 Acharya Shri Kailassagarsuri Gyanmandir " करागन्तुकसङ्गमचेतनविशेषैकरूपात्यल्पप्रयोजनसाधनस्वपरित्यागाहेतुभूतस्वसम्बन्धिपरित्यागसमर्थचेतनविशेषरूपच्छागस्वभावख्यापनाय तद्रूपत्वकल्पनं विरुद्धमेव । १" अजामेकाम् ” १" अजो ह्येकः " " अजो। ' ऽन्यः" इत्यत्वाजाशब्दस्य विरूपार्थकल्पनं च न शोभनम् । सर्वत्र च्छागत्वं परिकल्प्यत इति चेत् ?" जहात्येनां भुक्तभोगामजोऽन्यः इति विदुष आत्यन्तिकप्रकृतिपरित्यागं कुर्वतोऽनेनवाऽन्येनवा पुनरपि सम्बन्धयोग्यच्छागत्व परिकल्पनमत्यन्तविरुद्धम् ॥ १० ॥ इति श्रीशारीरकमीमांसाभाष्ये चमसाधिकरणम् ॥ २ ॥ २. कठ, १.३.३ ॥ For Private And Personal Use Only K
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy