________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसाभाष्ये कल्पयत्" इति कल्पनं सृष्टिः। अत्रापि १“अस्मान्मायी सृजते विश्वमेतत्" इति जगत्सृष्टिरुपदिश्यते । खेनाविभक्तादस्मात्सूक्ष्मावस्थात्कारणान्मायी सर्वेश्वरस्सर्व जगत्सृजतीत्यर्थः। अनेन कल्पनोपदेशेनास्याः प्रकृतेः कार्यकारणरूपेणावस्थाद्वयान्वयोऽवगम्यते । सा हि प्रलयवेलायां ब्रह्मतापना अविभक्तनामरूपा सूक्ष्मरूपेणावतिष्ठतेः सृष्टिवेलायां तूतसत्त्वादिगुणा विभक्तनामरूपाऽव्यक्तादिशब्दवाच्या तेजोबन्नादिरूपेण च परिणता लोहितशुक्लकृष्णाकारा चावतिष्ठते । अतः कारणावस्थाऽजा, कार्यावस्था ज्योतिरुपक्रमेति न विरोधः । मध्वादिवत्-यथेश्वरेणादित्यस्य कारणावस्थायामेकस्यैवावस्थितस्य कार्यावस्थायामृग्यजुस्सामाथर्वप्रतिपाद्यकर्मनिष्पाद्यरसाश्रयतया वस्वादिदेवताभोग्यत्वाय मधुत्वकल्पनमुदयास्तमयकल्पनं च न विरुध्यते । तदुतं मधुविद्यायाम् २" असौ वा आदित्यो देवमधु" इत्यारभ्य ३"अथ तत ऊर्ध्व उदेत्य नैवोदेता नास्तमेतैकल एव मध्ये स्थाता" इत्यन्तेन । एकलः एकस्वभावः। अतोऽनेन मन्त्रेण ब्रह्मात्मिकाऽजैवाभिधीयते, न कापिलतन्त्रसिद्धेति सिद्धम् ॥ __अन्ये त्वस्मिन्मन्त्रे तेजोबनलक्षणाऽजैकाभिधीयत इति ब्रुवते । ते प्रष्टव्याः-किं तेजोबनान्येव तेजोबन्नात्मिकाऽजैका; उत तेजोबनरूपं ब्रह्मैव किं वा तेजोबन्नकारणभूता काचित्-इति । प्रथमे कल्पे तेजोबनानामनेकत्वात् “अजामेकाम्" इति विरुध्यते । न च वाच्यं तेजोबनानामनेकत्वेऽपि त्रिवृत्करणेनैकतापत्तिरिति। त्रिवृत्करणेऽपि बहुत्वानपगमात्, ५"इमास्तिस्रो देवताः" ६"तासां त्रिवृतं त्रिवृतमेकैकां करवाणि" इति प्रत्येकं त्रिवृत्करणोपदेशात् । द्वितीयः कल्पो विकल्प्यः१.थे, ४.९॥
४, वे, ४-५ ॥ २. छा. ३-१-१॥
५. छा. ६-३-२ ॥ २.छा. ६.३.३॥
३. छा, ३-११-१॥
For Private And Personal Use Only