________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.४. बमसाधिकरणम् .
३६७ णाः प्रभवन्ति तस्मात्" इत्यादिना सर्वेषां लोकानां ब्रह्मादीनां च तत उत्पत्तिमभिधाय सर्वकारणीभूताऽजा तत उत्पन्नाऽभिधीयते १"अजामेकां लोहितशुक्लकष्णां बहीं प्रजां जनयन्ती सरूपाम् । अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः"इति । सर्वस्य तद्यतिरिक्तस्य वस्तुजातस्य तत उत्पत्त्या तदात्मकत्वोपदेशे प्रक्रियमाणेऽभिधीयमानत्वामाणसमुद्रपर्वतादिवदेषाऽप्यजा बहीनां सरूपाणां प्रजानां स्रष्ट्री कर्मवश्येनाऽत्मना भुज्यमाना अन्येन विदुषाऽऽत्मना त्यज्यमानाच ब्रह्मण उत्पना ब्रह्मात्मिकाऽवगन्तव्येत्यर्थः । अतो वाक्यशेषाच्चमसविशेषवच्छाखान्तरीयादेतत्सरूपात्मत्यभिज्ञायमानार्थाद्वाक्यानियमिताऽजा ब्रह्मात्मिकेति निश्रीयते। इहापि प्रकरणोपक्रमे २"किं कारणं ब्रह्म"इत्यारभ्य ३"ते ध्यानयोगानुगता अपश्यन्देवात्मशक्तिं स्वगुणैर्निरूढाम्" इति परब्रह्मशतिरूपाया अजाया अवगतः,उपरिष्टाच "अस्मान्मायी सृजते विश्वमेतत्तमिवान्यो मायया सनिरुद्धः" ५'मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" ६"यो योनिॉनिमधितिष्ठत्येकः"इति च तस्या एव प्रतीते - मिन्मन्त्रे तन्त्रसिद्धस्वतन्त्रप्रकृतिप्रतिपत्तिगन्धः॥
कथं तर्हि ज्योतिरुपक्रमाया लोहितशुक्लकृष्णरूपाया अस्याः प्रकृतेरजात्वम् , अजाया वा कथं ज्योतिरुपक्रमात्वमित्यवाहकल्पनोपदेशाच्च मध्वादिवदविरोधः।१।४।१०॥
प्रसक्ताशज्ञानिवृत्त्यर्थश्वशब्दः । अस्याः प्रकृतेरजात्वं ज्योतिरुपकमात्वं च न विरुध्यते; कुतः? कल्पनोपदेशात् । कल्पनं कुप्तिः सुष्टिः जगत्सृष्टयुपदेशादित्यर्थः। यथा 'सूर्याचन्द्रमसौ धाता यथापूर्वम१. ने. नारा. १२ ॥
५. ६. वे. ४.१०, ११॥ २.. १.१॥
७. ते. नारा, १-१३॥
For Private And Personal Use Only