SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भौशारीरकमीमांसामान्ये [म. १. श्रवणात, १"वहीः प्रजास्सृजमानां सरूपाः" इति स्वातन्त्र्येण सरूपाणां बहीनां प्रजानां स्रष्टत्वश्रवणाच्च-इति ॥ ८॥ एवं प्राप्तेऽभिधीयते-चमसवदविशेषात्-न जायत इत्यजेत्यजात्वमानप्रतिपादनात्तन्त्रसिद्धाब्रह्मात्मकाजाग्रहणे विशेषाप्रतीतेः चमसवत्-यथा २"अर्वाग्विलश्चमस ऊर्ध्वबुध्नः" इत्यस्मिन्मन्त्रे चमसस्य भक्षणसाधनत्वमात्रं चमसशब्देन प्रतीयत इति न तावन्मात्रेण चमसविशेषप्रतीतिः, यौगिकशब्दानामर्थप्रकरणादिभिर्विनाऽर्थविशेषनिश्चयायोगातः तत्र २" यथेदं तच्छिरः एष हर्वाग्विलश्चमस ऊर्ध्वबुध्नः" इत्यादिना वाक्यशेषेण शिरसश्चमसत्वनिश्चयः; तथाऽत्राप्यर्थप्रकरणादिभिरेवाजा निर्णेतव्या; नचात्र तन्त्रसिद्धाजाग्रहणहेतवोऽर्थप्रकरणादयो दृश्यन्ते नचास्यास्वातन्त्रयेण स्रष्टत्वं प्रतीयते, " बढीः प्रजास्सृजमानाम्" इति स्रष्टत्वमात्रप्रतीतेः। अतोऽनेन मन्त्रेण नाब्रह्मात्मिकाजाऽभिधीयते ॥ __ ब्रह्मात्मकाजाग्रहण एव विशेषहेतुरस्तीत्याहज्योतिरुपक्रमा तु तथाह्यधीयत एके। १॥४॥९॥ तुशब्दोऽवधारणार्थः; ज्योतिरुपक्रमैवैषाऽजा; ज्योतिः ब्रह्मरे "तं देवा ज्योतिषां ज्योतिः" "अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यादिश्रुतिपसिद्धेः ज्योतिरुपक्रमा ब्रह्मकारणिकेत्यर्थः। तथाह्यधीयत एके-हीति हेतो,यस्मादस्या अजाया ब्रह्मकारणकत्वमेके शाखिनः तैत्तिरीया अधीयते-५ अणोरणीयान्महतो महीयानात्मा गुहायां निहितोऽस्य जन्तोः" इति हृदयगुहायामुपास्यत्वेन सनिहितं ब्रह्माभिधाय "सप्त प्रा१.श्रे. ४-५ ॥ ४. छा.३-१३-७॥ ५. तै-नारा. १२॥ २.१.४-२.३ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy