________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४. ]
३६५
खमसाधिकरणम्. द्वावजावीशनीशावजा होका भोक्तभोगार्थयुक्ता । अनन्तश्वात्मा विश्वरूपो झकर्ता वयं यदा विन्दते ब्रह्ममेतत् " "क्षरं प्रधानममृताक्षरं हरः क्षरात्मानावीशते देव एकः । तस्याभिध्यानाद्योजनात्तत्वभावाद्भयश्चान्ते विश्वमायानिवृत्तिः " इति तथा २ "छन्दांसि यज्ञाः क्रतवो व्रतानि भूतं भव्यं यच्च वेदा वदन्ति । अस्मान्मायी सृजते विश्वमेतत्तस्मिंश्वान्यो मायया सनिरुद्धः । मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम् । तस्यावयवभूतैस्तु व्याप्तं सर्वमिदं जगत्" इति; तथोत्तरत्रापि ३" प्रधान क्षेत्रज्ञपतिर्गुणेशस्संसारमोक्षस्थितिबन्धहेतुः" इति । स्मृतिरपि ४" प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि । विकारांच गुणांश्चैव विद्धि प्रकृतिसम्भवान् । कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते । पुरुषस्सुखदुःखानां भोक्तृत्वे हेतुरुच्यते । पुरुषः प्रकृतिस्थोऽपि भुङ्क्ते प्रकृतिजान् गुणान् । कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु " ५" सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः। निबध्नन्ति महाबाहो देहे देहिनमव्ययम् "; तथा ६" सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् । कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ॥ प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः । भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् " " मयाऽध्यक्षेण प्रकृतिस्तूयते सचराचरम् । हेतुनाऽनेन कौन्तेय जगद्धि परिवर्तते " इति । तस्मादब्रह्मात्मकत्वेन कापि - लतन्त्रसिद्धाः प्रकृत्यादयो निरस्यन्ते । श्वेताश्वतरोपनिषदि श्रूयते " अजामेकां लोहितशुक्लकृष्णां बहीः प्रजास्सृजमानां सरूपाः । अजो को जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः" इति । तत्र सन्देह :- किमस्मिन्मन्त्रे केवला तन्त्रसिद्धा प्रकृतिरभिधीयते, उत ब्रह्मात्मिका - इति । किं युक्तम् ? केवलेति । कुतः ? " अजामेकाम्" इत्यस्याः प्रकृतेरकार्यत्व
१. वे. १ - १० ॥
२. वे. ४ ९, १० ॥
३. वे. ६-१६ ॥ ४.गी. १३-१९, २०
Acharya Shri Kailassagarsuri Gyanmandir
५. गी. १४-५ ॥
६. गी. ९-७, ८ ॥ ७.गी. ९-१० ॥
For Private And Personal Use Only
८. वे. ४-५ ॥