________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा..] चमसाधिकरणम्.
३७५ राधान्तस्तु-न तन्त्रसिद्धायाः प्रकृतेरत्र ग्रहणम् , जननविरहश्रवणमात्रेण तन्त्रसिद्धायाः प्रकृतेः प्रतीतिनियमाभावात् , नहि यौगिकानां शब्दानामर्थप्रकरणादिभिर्विशेष्यव्यवस्थापकैर्विना विशेषे वृत्तिनियमसम्भवः, नचास्यास्वातब्येण सृष्टिहेतुत्वमिह प्रतीतम्, अपितु सृष्टिहेतुत्वमात्रम् तद्ब्रह्मात्मिकायाश्च न विरुद्धम् ; अत्र तु ब्रह्मात्मिकाया एव शाखान्तरसिद्धायाः एतत्सरूपमन्त्रो. दितायाः प्रत्यभिज्ञानात्सैवेति निश्चीयते ॥
सूत्रार्थस्तु-नायमजाशब्दस्तन्त्रसिद्धप्रधानविषयः, कुतः? चमसवदवि. शेषात् । यथा १"अर्वाग्बिलश्चमसः" इति मन्त्रे चमनसाधनत्वयोगेन प्रवृत्तस्य चमसशब्दस्य शिरसि प्रवृत्तौ १"यथेद तच्छिर एष हर्वाग्विलश्चमसः" इति वाक्यशेषे विशेषो दृश्यते तथा २"अजामेकाम्" इत्यजाशब्दस्य तन्त्रसिद्धप्रधाने वृत्तौ विशेषाभावान्न तद्रहण न्याय्यम् ॥ ८॥
अस्ति तु ब्रह्मात्मिकाया एव ग्रहणे विशेष इत्याह
ज्योतिरुपक्रमा तु तथाह्यधीयत एके ॥ ज्योतिः ब्रह्म यस्याः उपक्रमः कारणम् , सा ज्यातिरुपक्रमा । तुशब्दोऽवधारणे । ब्रह्मकारणि कैवैषाऽजा; तथाह्यधीयत एके, यथारूपोऽयमजायाः प्रतिपादको मन्त्रः; तथारूपमेव मन्त्रं ब्रह्मात्मिकायाः तस्याः प्रतिपादकमधीयत एके शाखिनः ३"अणोरणीयान्महतो महीयान्'इत्यादिना ब्रह्म प्रतिपाद्य "सप्त प्राणाः प्रभवन्ति तस्मात्सप्तार्चिषस्समिधस्सप्तजिहाः। सप्त इमे लोका येषु चरन्ति प्राणा गुहाशयान्निहितास्सप्तसप्त। अतस्समुद्रा गिरयश्च सर्व" इत्यादिना ब्रह्मण उत्पन्नत्वेन ब्रह्मात्मकतया सर्वानुसन्धानविधानसमये५'अजामेकां लोहितशुक्लकृष्णां बहीं प्रजां जनयन्ती सरूपाम्" इति प्रतिपाद्यमाना ब्रह्मात्मिकैवेति तत्प्रत्यभिज्ञानादिहाप्यजा ब्रह्मात्मि. कैवेति निश्चीयते ॥९॥
अजात्वं ज्योतिरुपक्रमात्वं च कथमुपपद्यते इत्यत आह___ कल्पनोपदेशाच्च मध्वादिवदविरोधः। कल्पना सृष्टिः,६'सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत्" इत्यादिदर्शनात् । ७"अस्मान्मायी सृजते विश्वमेतत् "इति हि सृष्टिरिहोपदिश्यते । प्रलयवेलायामेषा प्रकृतिः परम१. उ. ४-२-३॥
४. ते. नारा. ६-१०-२, ३ ॥ २.श्रे. ४-५॥
५. ते. नारा. ६-१०-५॥ ३. ते. नारा. ६-१०-१॥
६. ते.नारा, ६-१-३८॥ ७.४.९॥
For Private And Personal Use Only