________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभावे
[अ. १. ननु च-सकलभेदनिवृत्तिः प्रत्यक्षविरुद्धा कथमिव शास्त्रजन्यविज्ञानेन क्रियते ? । कथं वा 'रज्जुरेषा न सर्पः' इति ज्ञानेन प्रत्यक्षविरुद्धा सर्पनिवृत्तिः क्रियते । तत्र द्वयोः प्रत्यक्षयोर्विरोधः; इह तु प्रत्यक्षमूलस्य शास्त्रस्य प्रत्यक्षस्य च इति चेत् तुल्ययोर्विरोधे वा कथं बाध्यबाधकभावः । पूर्वोत्तरयोर्दुष्टकारणजन्यत्वतदभावाभ्याम् -- इति चेत् । शास्त्रप्रत्यक्षयोरपि समानमेतत् ॥
एतदुक्तं भवति—बाध्यबाधकभावे तुल्यत्वसापेक्षत्वनिरपेक्षत्वादि न कारणम् , ज्वालाभेदानुमानेन प्रत्यक्षोपमर्दायोगात् । तत्र हि ज्वालैक्यं प्रत्यक्षेणावगम्यते । एवं च- सति द्वयोः प्रमाणयोर्विरोधे यत्संभाव्यमानान्यथासिद्धि, तद्भाध्यम् ; अनन्यथासिद्धमनवकाशमितरदाधकम्-इति सर्वत्र बाध्यबाधकभावनिर्णयः इति ॥
तस्मादनादिनिधनाविच्छिन्नसम्प्रदायासम्भाव्यमानदोषगन्धान - वकाशशास्त्रजन्यनिर्विशेषनित्यशुद्धमुक्तबुद्धस्वप्रकाशचिन्मात्रब्रह्मात्मभा - वावबोधेन सम्भाव्यमानदोषसावकाशप्रत्यक्षादिसिद्धविविधविकल्परूपबन्धनिवृत्तियुक्तैव । सम्भाव्यते च विविधविकल्पभेदप्रपञ्चग्राहिप्रत्यक्षस्यानादिभेदवासनादिरूपाविद्याख्यो दोषः । ननु-अनादिनिधनाविच्छिन्नसम्पदायतया निर्दोषस्यापि शास्त्रस्य–१“ज्योतिष्टोमेन स्वर्गकामो यजेत" इत्येवमादेर्भेदावलम्बिनो बाध्यत्वं प्रसज्येतोसत्यम् । पूर्वापरापच्छेदे पूर्वशास्त्रवन्मोक्षशास्त्रस्य निरवकाशत्वात्तेन बाध्यत एव । वेदान्तवाक्येष्वपि सगुणब्रह्मोपासनपराणां शास्त्राणामयमेव न्यायः, निर्गुणत्वात्परस्य ब्रह्मणः । ननु च–२ “यस्सर्वज्ञस्सर्ववित्" ३"पराऽस्य शक्तिविविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च" ४" सत्यकामस्सत्य
३. श्वे. ६. अ. ८. वा. २. मु. २. मु. २. ख. ७. वा. । ४. छा. ८. प्र. १, ख. ५. वा.
१.
For Private And Personal Use Only