________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. १.]
जिज्ञासाधिकरणम्
१ सद्भाव एवं भवतो मयोक्तो ज्ञानं यथा सत्यमसत्यमन्यत् । एतत्तु यत्संव्यवहारभूतं तत्रापि चोक्तं भुवनाश्रितं ते ।। " इति ॥ अस्याश्वाविद्याया निर्विशेषचिन्मात्र ब्रह्मात्मैकत्वविज्ञानेन निवृत्तिं वदन्ति - न पुनर्मृत्यवे तदेकं पश्यति" " न पश्यो मृत्युं पश्यति " *" यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति " २" भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे " ३" ब्रह्म वेद ब्रह्मैव भवति" ४" तमेव विदित्वाऽतिमृत्युमेति नान्यः पन्थाः " - इत्याद्याश्रुतयः । अत्र मृत्युशब्देनाविद्याऽभिधीयते । यथा सनत्सुजातवचनं - ५" प्रमादं वै मृत्युमहं ब्रवीमि सदा प्रमादममृतत्वं ब्रवीमि ” – इति । ६" सत्यं ज्ञानमनन्तं ब्रह्म " ७" विज्ञानमानन्दं ब्रह्म" इत्यादिशोधकवाक्यावसेयनिर्विशेषस्वरूपब्रह्मात्मैकत्वविज्ञानं च - " अथ योऽन्यां देवतामुपास्तेऽन्योऽसावन्योऽहमस्मीति न स वेद ” ९" अकृत्स्नो ह्येष : " १० " आत्मेत्येवोपासीत " ११ “तत्वमसि ” १२" त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसि भगवो देवते तद्योऽहं सोऽसौ योऽसौ सोऽहमस्मि " इत्यादिवाक्यसिद्धम् । वक्ष्यति चैतदेव – १३ " आत्मेति तूपगच्छन्ति ग्राहयन्ति च" इति । तथा च वाक्यकारः - १४" आत्मेत्येव तु गृह्णीयात् सर्वस्य तन्निष्पत्तेः " इति । अनेन च ब्रह्मात्मैकत्वविज्ञानेन मिथ्यारूपस्य सकारणस्य बन्धस्य निवृत्तिर्युक्ता ॥
।
१. वि. पु. २, १२.४५, लो.
२. मु. २. मु. २. ख. ८. वा.
३. मु-३. मु. २. ख. ९. वा.
४. वे. ३. अ. ८. वा.
५. भारत, उद्योगपर्व. ४१. अ. ४, श्लो. ६. तै- आनं. १. अनु. १. वा.
७. बृ-५. अ ९. बा. २८. वा.
3
Acharya Shri Kailassagarsuri Gyanmandir
८. बृ- ३. अ.
For Private And Personal Use Only
४. बा. १०. वा.
९. बृ- ३. अ. ४. ब्रा. ७. वा. १०. बृ ३. अ. ४. बा. ७. वा.
११. छा. ६. प्र. ८. ख. ७. वा.
१२.
१३. शारी. ४. अ. १. पा. ३. सू. १४. वाक्यम्.
१७