________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शारीरकमीमांसाभाग्ये
[अ. १. इत्यादिभिर्वस्तुस्वरूपोपदेशपरैश्शास्त्रैः-- निर्विशेषचिन्मानं ब्रह्मैव सत्यमन्यत्सर्व मिथ्या-इत्यभिधानात् ॥
मिथ्यात्वं नाम प्रतीयमानत्वपूर्वकयथावस्थितवस्तुज्ञाननिवर्त्यत्वम्, यथा रज्ज्वायधिष्ठानसादेः। दोषवशाद्धि तत्र तत्कल्पनम्। एवं चिन्मात्रवपुषि परे ब्रह्मणि दोषपरिकल्पितमिदं देवतियङमनुष्यस्थावरादिभेदं सर्व जगद्यथावस्थितब्रह्मस्वरूपावबोधवाध्यं मिथ्यारूपम् । दोषश्च स्वरूपतिरोधानविविधविचित्रविक्षेपकरी सदसदनिर्वचनीयाऽनायविद्या । १"अनृतेन हि प्रत्यूढाः" २"तेषां सत्यानां सतामनृतमपिधानम्" ३"नासदासीनो सदासीत्तदानीं तम आसीत्तमसा गूढमग्रे प्रकेतम्" ४"मायां तु प्रकृति विद्यान्मायिनं तु महेश्वरम्" ५“इन्द्रो मायाभिः पुरुरूप ईयते" ६"मम माया दुरत्यया" ७"अनादिमायया सुप्तो यदा जीवः प्रबुध्यते" —इत्यादिभिः निर्विशेषचिन्मानं ब्रह्मैवानाद्यविद्यया सदसदनिर्वाच्यया तिरोहितस्वरूपं स्वगतनानात्वं पश्यतीत्यवगम्यते। यथोक्तम्--
८"ज्ञानस्वरूपो भगवान्यतोऽसावशेषमूर्तिर्न तु वस्तुभूतः। ततो हि शैलाब्धिधरादिभेदान् जानीहि विज्ञानविजृम्भितानि ॥ यदा तु शुद्धं निजरूपि सर्वकर्मक्षये ज्ञानमपास्तदोषम् । तदा हि सङ्कल्पतरोः फलानि भवन्ति नो वस्तुषु वस्तुभेदाः॥" ९"तस्मान्न विज्ञानमृतेऽस्ति किञ्चित्कचित्कदाचिद्दिज ! वस्तुजातम् । विज्ञानमेकं निजकर्मभेदविभिन्नचित्तैर्वहुधाऽभ्युपेतम् ॥ ज्ञानं विशुद्धं विमलं विशोकमशेषलोभादिनिरस्तसङ्गम् ।
एकं सदैकं परमः परेशस्स वासुदेवो न यतोऽन्यदस्ति । १. छा-उ. ८. प्र. ३. ख. २. वा. ६. गी. ७. १४. २. छा-उ. ८. प्र. ३. ख. १. वा.
७. माण्डू-उ. २. ख. २१. वा. ३. यजु. २. अष्ट. ८. प्र.९. अनु. ८. वि. पु. २. १२. ३९. ४०. ४. श्वे-उ. ४. अ. १०. वा.
९. वि.पु.२. १२. ४३, ४४, ५. बृ-उ. ४. अ. ५. ब्रा. १९.
For Private And Personal Use Only