________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.
जिज्ञासाधिकरणम्. १“ यदेतद्दश्यते मूर्तमेतज्ज्ञानात्मनस्तव ।
भ्रान्तिज्ञानेन पश्यन्ति जगद्रपमयोगिनः॥ ज्ञानस्वरूपमखिलं जगदेतदबुद्धयः । अर्थस्वरूपं पश्यन्तो भ्राम्यन्ते मोहसंप्लवे ॥ ये तु ज्ञानविदश्शुद्धचेतसस्तेऽखिलं जगत् । ज्ञानात्मकं प्रपश्यन्ति त्वद्रपं परमेश्वर! ॥" २" तस्याऽत्मपरदेहेषु सतोऽप्येकमयं हि यत् ।
विज्ञानं परमार्थो हि द्वैतिनोऽतथ्यदर्शिनः॥" ३" यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थिवसत्तम ।
तदेषोऽहमयं चान्यो वक्तुमेवमपीष्यते ॥" ४" वेणुरन्ध्रविभेदेन भेदषड्रजादि संज्ञितः ।
अभेदव्यापिनो वायोस्तथाऽसौ परमात्मनः॥" ५".सोऽहं स च त्वं स च सर्वमेतदात्मस्वरूपं त्यज भेदमोहम् ।
इतीरितस्तेन स राजवर्यस्तत्याज भेदं परमार्थदृष्टिः॥" ६" विभेदजनके ज्ञाने नाशमात्यन्तिकं गते ।
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥" ७" अहमात्मा गुडाकेशः सर्वभूताशयस्थितः ॥" ८" क्षेत्रमं चापि मां विद्धि सर्वक्षेत्रेषु भारत !॥" ९" न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ॥" १. वि. पु. १. ४. ३९. ४०. ४१. ६. वि. पु. ६. ७. ९६. २. वि. पु. २. १४. ३१.
७. गी. १०. २०. श्लो. ३. वि. पु. २. १३. ९०.
८. गी. १३. ३. ४. वि. पु. २. १४. ३२.
९. गी. १०.३९. ५. वि. पु. २. १६. २३.
For Private And Personal Use Only