________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. १.]
जिज्ञासाधिकरणम् . सङ्कल्प:"-इत्यादिब्रह्मस्वरूपप्रतिपादनपराणां शास्त्राणां कथं बाध्यत्वम् निर्गुणवाक्यसामर्थ्यात्---इति ब्रूमः ॥
एतदुक्तं भवति -- १" अस्थूलमनण्वहस्वमदीर्घम्" २ "सत्यं ज्ञानमनन्तं ब्रह्म"३"निर्गुणम्" ४"निरञ्जनम्" इत्यादिवाक्यानि-निरस्तसमस्तविशेषकूटस्थनित्यचैतन्यं ब्रह्म-इति प्रतिपादयन्ति ; इतराणि च सगुणम् । उभयविधवाक्यानां विरोधे तेनैवापच्छेदन्यायेन निर्गुणवाक्यानां गुणापेक्षत्वेन परत्वादलीयस्त्वमिति न किंचिदपहीनम् ॥
ननु च-- “सत्यं ज्ञानमनन्तं ब्रह्म" इत्यत्र सत्यज्ञानादयो गुणाः प्रतीयन्ते ।।
नेत्युच्यते,सामानाधिकरण्येनैकार्थत्वप्रतीतेः। अनेकगुणविशिष्टाभिधानेऽप्येकार्थत्वमविरुद्धम् इति चेत् ; अनभिधानज्ञो देवानां प्रियः । एकार्थत्वं नाम सर्वपदानामर्थैक्यम्। विशिष्टपदार्थाभिधाने विशेषणभेदेन पदानामर्थभेदोऽवर्जनीयः । ततश्चैकार्थत्वं न सिध्यति । एवं तर्हि सर्वपदानां पर्यायता स्यात् , अविशिष्टार्थाभिधायित्वात् । एकार्थाभिधायित्वेऽप्यपर्यायत्वमवहितमनाश्शृणु; एकत्वतात्पर्यनिश्चयादेकस्यैवार्थस्य तत्तत्पदार्थविरोधिप्रत्यनीकत्वपरत्वेन सर्वपदानामर्थवत्वमेकार्थत्वमपर्यायता च ॥
एतदुक्तं भवति–लक्षणतः प्रतिपत्तव्यं ब्रह्म सकलेतरपदार्थविरोधिरूपम् । तद्विरोधिरूपं सर्वमनेन पदत्रयेण फलतो व्युदस्यते। तत्र स. त्यपदं विकारास्पदत्वेनासत्याद्वस्तुनो व्यावृत्तब्रह्मपरम्। ज्ञानपदं चान्याधीनप्रकाशजडरूपाद्वस्तुनो व्यावृत्तपरम् । अनन्तपदं च देशतः कालतो वस्तुतश्च परिच्छिन्नव्यावृत्तपरम् । न च व्यावृत्तिर्भावरूपोऽभावरूपो वा धर्मः । अपि तु सकलेतरविरोधि ब्रह्मैव । यथा शौक्लयादेः १. बृ. ५. अ. ८. बा. ८. वा. ३. आत्मोपनिषत्. २. तै-आनं. १. अनु. १. वा.
४. श्वे. ६. अ. १९. वा.
For Private And Personal Use Only