________________
Shri Mahavir Jain Aradhana Kendra
३६२
www.kobatirth.org
वेदान्तदीपे
[म. २.
महद्वच्च ॥ १" बुद्धेरात्मा महान्परः" इत्यात्मशब्दाद्यथा न तान्त्रिको महान्, तथाऽव्यक्तमपीति ॥ ७ ॥
इति वेदान्तसारे आनुमानिकाधिकरणम् ॥ १ ॥
Acharya Shri Kailassagarsuri Gyanmandir
1
वेदान्तदीपे - आनुमानिकमप्येकेषामितिचेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ।। कठवल्लीषु १ " इन्द्रियेभ्यः परा ह्यर्था अर्थभ्यश्च परं म नः । मनसश्च परा बुद्धिर्बुद्धेरात्मा महान्परः । महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः" इत्यत्र किं साङ्ख्योक्तं प्रधानमव्यक्तशब्दाभिधेयम् ? उत नेति संशयः । प्रधानमिति पूर्वः पक्षः २ " महतः परम्" इत्यादितत्तन्त्रप्रक्रियाप्रत्यभिज्ञानात् २" पुरुषान्न परं किञ्चित्" इ ति पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधाच्च । राद्धान्तस्तु-नाव्यक्तशब्देन प्रधानमिह गृह्यते, पूर्वत्र ३ " आत्मानं रथिनं विद्धि शरीरं रथमेवच" इत्यादिना उपासनानिर्वृत्तये वश्येन्द्रियत्वापादनाय, ये आत्मशरीरबुद्धिमनइन्द्रियविषयाः, रथिरथसारथिप्रग्रहहयगोचरत्वेन रूपिताः; तेषु वशीकार्यत्वे पराः १ इन्द्रियेभ्यः पराः" इत्यादिनोच्यन्ते तत्रचेन्द्रियादयः स्वशब्देनैव गृह्यन्ते रथत्वेन रूपितं शरीरमिहाव्यक्तपरिणामत्वेनाव्यक्तशब्देन गृह्यत इति नेह तत्तन्त्रप्रक्रियाप्रत्यभिज्ञागन्धः । २" अव्यक्तात्पुरुषः परः" इति च न पञ्चविंशकः; अपि तु प्राप्यः परमात्मैव । अन्तर्यामितयोपासनस्याप्युपायभूत इति स इह वशीकार्यकाष्ठात्वेन २' पुरुषान परं किश्चित्" इत्युक्तः ॥
१. कठ. १-३-१० ॥
२. कठ. १-३-११ ॥
सूत्रार्थस्तु - एकेषां कठानां शाखायाम्, आनुमानिकं प्रधानं जगत्कारणत्वेन १' महतः परमव्यक्तम्" इत्याम्नायते इतिचेत्-तन, अव्यक्तशब्देन शरीराक्यरूपकविन्यस्तस्य गृहीतेः पूर्वत्रात्मादिषु रथिरथादिरूपकविन्यस्तेषु रथत्वेन रूपितस्य शरीरस्यात्राव्यक्तशब्देन गृहीतेरित्यर्थः । अतो वशीकार्यत्वे परा इहोच्यन्ते । दर्शयति च एनमर्थे वाक्यशेषः, इन्द्रियादीनां नियमनप्रकारं प्रतिपादयन् ४" यच्छेद्वाङ्मनसी" इत्यादिः ॥
कथमव्यक्तशब्दस्य शरीरं वाच्यं भवतीत्याशङ्कयाह
३. कठ. १-३-३ ॥
४. काठ. १-३-२३ ॥
For Private And Personal Use Only