________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ४.]
अनुमानिकाधिकरणम्.
सूक्ष्मन्तु तदईत्वात् ।। तुशब्दोऽवधारणे । सुक्ष्मम् अव्यक्तमेवावस्थाम्तरापनं शरीरं भवति, तदवस्थस्यैव कार्यार्हत्वात् ॥ २ ॥
Acharya Shri Kailassagarsuri Gyanmandir
यदि रूपकविन्यस्ता आत्मादय एव वशीकार्यत्वे पराः १ " इन्द्रियेभ्यः परा:" इत्यादिना गृह्यन्ते; तर्हि २" अव्यक्तात्पुरुषः परः । पुरुषान परं किञ्चित्" इति पुरुषग्रहणं किमर्थमित्यत आह
१. कठ. १-३-१० ॥
२. कठ. १-३-११ ॥
तदधीनत्वादर्थवत् || अन्तर्यामिरूपेणावस्थित पुरुषाधीनत्वादात्मादिकं सर्व रथिरथत्वादिना रूपितम् अर्थवत् प्रयोजनवद्भवति । अत उपासननिर्वृत्तौ वशीकार्यकाष्ठा परमपुरुष इति तदर्थमिह रूपकविन्यस्तेषु परिगृह्यमाणेषु ३ पुरुषस्यापि ग्रहणम् । उपासननिर्वृत्त्युपायकाष्ठा पुरुषः प्राप्यश्चेति २" पुरुषान परं किञ्चित् सा काष्ठा सा परा गतिः" इत्युक्तम् । भाष्यप्रक्रियया वा नेयमिदं सूत्रम् परमपुरुषशरीरतया तदधीनत्वाद्भूतसूक्ष्ममव्याकृतमर्थवदिति तदिद्दाव्यक्तशब्देन गृह्यते; नाब्रह्मात्मकं स्वनिष्ठं तन्त्रसिद्धम् इति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ यदि तन्त्रसिद्ध प्रक्रियेहाभिप्रेता; तदाऽव्यक्तस्यापि शेयत्वं वक्तव्यम् । ४'' व्यक्ताव्यक्तज्ञविज्ञानात्" इति हि तत्प्रक्रिया । नाव्यक्तमिह शेयत्वेनोक्तम्, अतश्चात्र न तन्त्रप्रक्रियागन्धः ॥ ४ ॥
वदतीतिचेन प्राज्ञो हि प्रकरणात् ॥ ५" अशब्दमस्पर्शम्" इत्युपक्रम्य ५ " महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते " इति प्रधानस्य शेयत्वमनन्तरमेव वदतीयं श्रुतिरिति चेत् तन्न, ५ " अशब्दमस्पर्शम्" इत्यादिना प्राशः परमपुरुष एव ह्यत्रोच्यते ६" सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" ७"एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते " इति प्राज्ञस्यैव प्रकृतत्वात् ॥
३. परस्यापि पुरुषस्य पा ॥ ४. सांख्यतत्त्वकारिका २ - को ॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ।। अस्मिन्प्रकरणे ८" येयं प्रेते विचिकित्सा मनुष्ये” इत्यारभ्याऽसमाप्तेः परमपुरुषतदुपासनोपासकानां त्रयाणामेवैवं ज्ञेयत्वेन उपन्यासः प्रश्नश्च दृश्यते, न प्रधानादेस्तान्त्रिकस्यापि । अतश्च न प्रधानमिह ज्ञेयत्वेनोक्तम् ॥ ६ ॥
महद्वच्च ॥ यथा १" बुद्धेरात्मा महान्परः" इत्यात्मशब्द सामानाधिकर
३६३
५. कठ. १-३-१५ ॥
६. कठ. १-३-९ ॥
७. कठ. १-३-१२ ॥
८. कठ, १-१-२०॥
For Private And Personal Use Only