________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६१
पा. ४.]
मानुमानिकाधिकरणम् वेदान्तसारे-आनुमानिकमप्येकेषामितिचेन शरीररूपकविन्यस्तगृहीतेदर्शयति च ॥ एकेषां कठानां शाखायाम् , आनुमानिकं प्रधानमपि,जगत्कारणत्वेन? "महतः परमव्यक्तम्" इत्युच्यते इति चेत्-न,पूर्ववर "आस्मानं रथिनं विद्धि" इत्यादिष्पासनोपायेषु वशीकार्यत्वाय रथिरथादिरूपकविन्यस्लेषु शरीराख्यरूपकविन्यस्तस्यात्राव्यक्तशब्देन गृहीतेः।३"इन्द्रियेभ्यः प. राहाः " इत्यादिनाहि वशीकार्यत्वेनहि परा उच्यन्ते। तथाचोत्तरत्र श्रुतिरेष दर्शयति ४"यच्छेद्वाङ्मनसी प्राशः" इत्यादिना ॥१॥
सूक्ष्मन्तु तदर्हत्वात् ।। सूक्ष्मम् अव्यक्तमेव शरीरावस्थं कार्याईमिस्यव्यक्तशन्देन शरीरमेव गृह्यते ॥२॥
यदि रूपकविन्यस्तानामेव ग्रहणम् , किमर्थम् १"अव्यक्तात्पुरुषः परः" इत्यत आह
तदधीनत्वादर्थवत् ॥ पुरुषाधीनत्वादात्मशरीरादिकम् अर्थवत्-उपासननिर्वृत्तये भवति । पुरुषो ह्यन्तर्यामी सर्वमात्मादिकं प्रेरयन् उपासनोपा. यत्वेन वशीकार्यकाष्ठा प्राप्यश्चेति । “सा काष्ठा सा परा गतिः" इत्युच्यते ॥ ३ ॥
ज्ञेयत्वावचनाच ॥ अत्राव्यक्तस्य शेयत्वावचनाश्च न कापिलमव्यक्तम्॥
वदतीतिचेन प्राज्ञो हि प्रकरणात् ॥ ५"अशब्दमस्पर्शम्'इस्यारभ्य ५"निचाय्य तम्" इति वदतीति चेन्न, ६"तद्विष्णोः परमं पदम्" "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते" इत्यादिना प्रकृतः प्राशो हि ५"निचाय्य तम्". ति क्षेय उच्यते ॥५॥
त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ उपास्योपासनोपासकानान्त्रयाणामेवास्मिन्प्रकरणे शेयत्वेन उपन्यासः प्रश्नश्च, न प्रधानादेः । ८"अध्यात्मयोगाधिगमेन देवम्मत्वा" इत्यादिः उपन्यासः;"येयं प्रेते विचिकित्सा मनुम्ये अ. स्तीत्येके" इत्यादिकश्च प्रश्नः॥६॥ १. कठ. १-३-११॥
५. कठ. १-३-१५॥ २. कठ. १-३-३॥
६. कठ. १.३.९ ॥ ३. कठ. १-३.१०॥
७. कठ, १-३.१२॥ ४. कठ. १-३-१३॥
८. कठ, १.२.१२॥९.कर,१-१-२.॥
46
For Private And Personal Use Only