SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६० श्रीशारीरमीमांसाभाज्ये [अ. १. यत्तत्पश्यसि तद्वद" इति । एवं सकलेतरातीतानागतवर्तमानसाध्यसाधनसाधकविलक्षणे त्रये पृष्टे प्रथम प्रणवं प्रशस्य तद्वाच्यं प्राप्यस्वरूपं, तदन्तर्गतं च प्राप्तस्वरूपं वाचकरूपं चोपायं पुनरपि सामान्येन ख्यापयन्त्रणवं तावदुपदिदेश-१"सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्य चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतत्" इति । एवमुपदिश्य पुनरपि प्रणवं प्रशस्य प्रथमं तावत्माप्नुः प्रत्यगात्मनस्स्वरूपमाह--२"न जायते म्रियते वा विपश्चित्" इत्यादिना । प्राप्यस्य परस्य ब्रह्मणो विष्णोस्वरूपम् ३"अणोरणीयान्" इत्यादिना ४"क इत्था वेद यत्र सः"इत्यन्तेनोपदिशन्मध्ये ५"नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन" इत्यादिनोपायभूतस्योपासनस्य भक्तिरूपतामप्याह। ६"ऋतं पिबन्तै"इति चोपास्यस्योपासकेन सहावस्थानात्सूपासतामुक्त्वा ७"आत्मानं रथिनं विद्धि" इत्यादिना "दुर्ग पथस्तत्कवयो वदन्ति" इत्यन्तेनोपासनप्रकारमुपासीनस्य च वैष्णवपरमपदप्राप्तिमभिधाय ९"अशब्दमस्पर्शम्" इत्यादिनोपसंहृतम् । अतस्त्रयाणामेवात्र ज्ञेयत्वेनोपन्यासः प्रश्नश्च ; तस्मान्नेह तान्त्रिकस्याव्यक्तस्य ग्रहणम्।। महहच्च १॥४७॥ यथा १०"बुद्धरात्मा महान्परः" इत्यत्रात्मशब्दसामानाधिकरण्यान तन्त्रसिद्धं महत्तत्त्वं गृह्यते; एवमव्यक्तमप्यात्मनः परत्वेनाभिधानान्न कापिलतन्त्रसिद्धं गृह्यत इति स्थितम् ॥७॥ इति श्रीशारीरकमीमांसाभाष्ये आनुमानिकाधिकरणम् ॥ १ ॥ १. कठ. १-२-१५ ॥ २. कठ, १-२-१८ ॥ ३. कठ, १-२-२० ॥ ४. कठ. १-२-२५॥ ५. कठ. १-२-२३ ॥ ६. कठ. १-३-१॥ ७ कठ. १-३-३ ॥ ८. कठ. १-३-१४॥ ९. कठ.१-३-१५॥ १०. कठ. १-३-१०॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy