SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५९ आनुमानिकाधिकरणम् . त्रयाणामेवचैवमुपन्यासः प्रश्नश्च । १।४।६॥ अस्मिन्प्रकरणे ह्यपायोपेयोपेतॄणां त्रयाणमेव चैवमुपन्यासः-जेयत्वेनोपन्यासः, तद्विषयश्च प्रश्नो दृश्यते, नान्यस्याव्यक्तादेः । तथाहिनचिकेता मुमुक्षुस्सन्मृत्युप्रदत्ते वरत्रये प्रथमेन वरेणात्मनः पुरुषार्थयोग्यतापादिनीमात्मनि पितुस्सुमनस्कतां प्रतिलभ्य द्वितीयेन वरण मोक्षोपायभूतां नाचिकेताग्निविद्यां वत्रे-१"सत्वमग्निं स्वर्ग्यमध्येषि मृत्यो प्रब्रूहि तं श्रद्दधानाय मह्यम् । स्वर्गलोका अमृतत्वं भजन्त एतदितीयेन वृणे वरेण" इति । स्वर्गशब्देनात्र परमपुरुषार्थलक्षणो मोक्षोऽभिधीयते, १"अमृतत्वं भजन्ते"इति तत्रस्थस्य जननमरणाभावश्रवणादुत्तरत्र क्षयिफलकर्मनिन्दादर्शनाचा २"त्रिणाचिकेतस्त्रिभिरेत्य सन्धि त्रिकर्मकृत्तरति जन्ममृत्यू" इति च प्रतिवचनात्। तृतीयेन वरेण मोक्षस्वरूपप्रश्नद्वारेणोपेयखरूपमुपेतृस्वरूपमुपायभूतकर्मानुगृहीतोपासनस्वरूपं च पृष्टम्-३"येयं प्रेते विचिकित्सा मनुष्ये अस्तीत्येके नायमस्तीति चैके। एतद्विद्यामनुशिष्टस्त्वयाऽहं वराणामेष वरस्तृतीयः" इति । एवं मोक्षे पृष्टे तदुपदेशयोग्यता परीक्ष्योपदिदेश-४"तं दुर्दर्श गूढमनुप्रविष्टं गुहाहितं गहरेष्ठं पुराणम् । अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोको जहाति" इति । तदेवं सामान्येनोपदिष्टे नचिकेताः प्रीतस्सन् ४"देवं मत्वा" इत्युपास्यतया निर्दिष्टस्य प्राप्यभूतस्य देवस्य ४"अध्यात्मयोगाधिगमेन" इति वेदितव्यतया निर्दिष्टस्य प्राप्तुः प्रत्यगात्मनश्च४"मत्वा धीरो हर्षशोको जहाति" इति निर्दिष्टस्य ब्रह्मोपासनस्य च स्वरूपविशोधनाय पुनः पप्रच्छ५"अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्। अन्यत्र भूताद्भव्याच्च १. कठ. १.१-१३ ॥ ४. कठ. १-२-१२॥ २. कठ, १-१-१७॥ ५. कठ, १-२-१४॥ ३. कठ.१.१.२०॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy