SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५८ श्रीशारीरकमीमांसाभाज्ये [अ.१. प्रभवः मलयस्तथा ॥ मत्तः परतरं नान्यत्किश्चिदस्ति धनञ्जय । मयि सर्वमिदं पोतं सूत्रे मणिगणा इव" इति, १" व्यक्तं विष्णुस्तथाऽव्यक्तं पुरुषः काल एव च" इति,२ "प्रकृतिर्या मयाऽऽख्याता व्यक्ताव्यक्तस्वरूपिणी । पुरुषश्चाप्युभावेतौ लीयेते परमात्मनि । परमात्मा च सर्वेषामाधारः परमेश्वरः" इति च ॥३॥ ज्ञेयत्वावचनाच्च । १।४।४॥ यदि तन्त्रसिद्धमिहाव्यक्तमविवक्षिष्यत्, ज्ञेयत्वमवक्ष्यत् ३व्यक्ताव्यक्तज्ञविज्ञानात् मोक्षं वदद्भिस्तान्त्रिकैस्तेषां सर्वेषां ज्ञेयत्वाभ्युपगमात्, न चास्य ज्ञेयत्वमुच्यते; अतो न तन्त्रसिद्धस्येह ग्रहणम् ॥ ४ ॥ वदतीतिचेन्न प्राज्ञो हि प्रकरणात् ।।४।५॥ ___४"अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवञ्च यत्। अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते" इत्यव्यक्तस्य ज्ञेयत्वमनन्तरमेव वदतीयं श्रुतिरितिचेत्-तन्न, प्राज्ञः-परमपुरुष एव ह्यत्र श्लोके निचाय्यत्वेन प्रतिपाद्यते "विज्ञानसारथिर्यस्तु मनःग्रहवानरः। सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्रयया बुद्धया मूक्ष्मया सूक्ष्मदर्शिभिः"इति प्राज्ञस्यैव प्रकृतत्वात्। अत एव ७"पुरुषान परं किञ्चित्" इति न पञ्चविंशकपुरुषातिरिक्ततत्त्वनिषेधः। तस्य च परमपुरुषस्याशब्दत्वादयो धर्माः “यत्तदद्रेश्यमग्राह्यम्" इत्यादिश्रुतिप्रसिद्धाः । ८"महतः परम्" इत्यपि ९ "बुद्धरात्मा महान्परः"इति पूर्वप्रकृताज्जीवात्मनः परत्वमेवोच्यते ॥५॥ १. वि. १-२-१८ ॥ ५. कठ. १-३.९ ॥ ६. कठ. १-३-१२॥ २. वि, ६-४-३९, ४० ॥ ७. कठ. १-३-११॥ ३.सांस्यतत्त्वकारिका।। ४.कठ.१-३-१५॥ ८. मु. १-६ ॥ ९. कठ. १-३-१० ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy