________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ४.] आनुमानिकाधिकरणम् .
३५७ कृतमिह शरीरावस्थमव्यक्तशब्देनोच्यते । तदर्हत्वात्-तस्याव्याकृतस्याचिद्वस्तुन एव विकारापन्नस्य रथवत्पुरुषार्थसाधनप्रवृत्त्यर्हत्वात् ॥ २॥
यदि भूतसूक्ष्ममव्याकृतमभ्युपगम्यते कापिलतन्त्रसिद्धोपादाने कः प्रद्वेषः, तत्रापिहि भूतकारणमेवाव्यक्तमित्युच्यते; तलाह
तदधीनत्वादर्थवत् । १।४।३॥
परमकारणभूतपरमपुरुषाधीनत्वात्प्रयोजनवद्भतसूक्ष्मम् । एतदुक्तं भवति-न वयमव्यक्तं तत्परिणामविशेषांश्च स्वरूपेण नाभ्युपगच्छामः; अपितु परमपुरुषशरीरतया तदात्मकत्वविरहेण । तदात्मकत्वेनैव हि प्रकत्यादयस्वप्रयोजनं साधयन्ति; अन्यथा वरूपस्थितिप्रवृत्तिभेदास्तेषां न स्युः; तथाऽनभ्युपगमादेव तन्त्रसिद्धप्रक्रियानिरसनम्-इति। श्रुतिस्मृत्योहि जगदुत्पत्तिप्रलयवादेषु परमपुरुषमहिमवादेषु च प्रकृतिविकृतिपुरुषास्तदात्मकास्सङ्कीर्त्यन्ते; यथा १“पृथिव्यप्सु लीयते" इत्यारभ्य "तन्मात्राणि भूतादौ लीयन्ते। भूतादिमहति लीयते। महानव्यक्ते लीयते। अव्यक्तमक्षरे लीयते । अक्षरं तमसि लीयते। तमः परे देव एकीभवति", तथार “यस्य पृथिवी शरीरं यस्यापश्शरीरं यस्य तेजश्शरीरं यस्य वायुशरीरं यस्याकाशश्शरीरं यस्याहङ्कारश्शरीरं यस्य बुद्धिश्शरीरं यस्याव्यक्तं शरीरं यस्याक्षरं शरीरं यस्य मृत्युश्शरीरम् एष सर्वभूतान्तरात्माऽपहतपाप्मा दिव्यो देव एको नारायणः",तथा ३ "भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च। अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा।।अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् । जीवभूतां महाबाहो ययेदं धार्यते जगत् ॥ एतद्योनीनि भूतानि सर्वाणीत्युपधारय । अहं कृत्स्नस्य जगतः
३. गी. ७-४, ५, ६, ७ ॥
१. सुबाल. २. ख ॥ २. सुवाल. ७. खं ॥
For Private And Personal Use Only