________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामान्ये
[भ. १. परत्वकीर्तनात् । नहि शब्दादय इन्द्रियाणां कारणभूतास्तदर्शने। १"अर्थेभ्यश्च परं मनः"इत्यपि न तत्तन्त्रसङ्गतम्, अकारणत्वादेव तथा “बुद्धेरात्मा महान्परः"इत्यप्यसङ्गतम्, बुद्धिशब्देन महत्तत्त्वस्याभिधानाभ्युपगमात्। नहि महतो महान्परस्सम्भवति । महत आत्मशब्देन विशेषणं च न सङ्गच्छते। अतो रूपकविन्यस्तानामेव ग्रहणम्। दर्शयति च तदेवर "एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वरयया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः"३"यच्छेवाङ्मनसी प्राज्ञस्तद्यच्छेत् ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्त आत्मनि" इति । अजितबाह्याभ्यन्तरकरणैरस्य परमपुरुषस्य दुर्दर्शत्वमभिधाय हयादिरूपितानामिन्द्रियादीनां वशीकारप्रकारोऽयमुच्यते। ३"यच्छेवाङ्मनसी"वाचं मनसि नियच्छेत्-वाक्पूर्वकाणि कर्मेन्द्रियाणि ज्ञानेन्द्रियाणि च मनसि नियच्छेदित्यर्थः। वाक्छन्दे द्वितीयायाः" "सुपां सुलुक" इति लुक् । 'मनसी' इति सप्तम्याश्छान्दसो दर्घिः। ३"तद्यच्छेत् ज्ञान आत्मनि"तन्मनो बुद्धौ नियच्छेत् । ज्ञानशब्देनात्र पूर्वोक्ता बुद्धिरभिधीयते। ३"ज्ञान आत्मनि" इति व्यधिकरणे सप्तम्यौ। आत्मनि वर्तमाने ज्ञाने नियच्छेदित्यर्थः।३ "ज्ञानमात्मनि महति नियच्छेत्" बुद्धिं कर्तरि महत्यात्मनि नियच्छेत्। ३"तद्यच्छेच्छान्त आत्मनि" तं कर्तारं परस्मिन्ब्रह्मणि सर्वान्तर्यामिणि नियच्छेत्। व्यत्ययेन तदिति नपुंसकलिङ्गता। एवम्भूतेन रथिना वैष्णवं पदं गन्तव्यमित्यर्थः॥१॥
अव्यक्तशब्देन कथं व्यक्तस्य शरीरस्याभिधानम् ? तत्राहसूक्ष्मं तु तदर्हत्वात् । १।४।२॥ भूतसूक्ष्ममव्याकृतं ह्यवस्थाविशेषमापन्नं शरीरं भवति; तदव्या१. कठ. १-३-१०॥
३. कठ. १-३-१३ ॥ २, कठ, १-३-१२॥
४. पाणिनि. ७-१-३९॥
For Private And Personal Use Only