________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५५
पा. ४.]
आनुमानिकाधिकरणम् . अपि रथित्वरूपित आत्मा कर्तृत्वेन प्राधान्यात्परः; सर्वस्यचास्यात्मेच्छायत्तत्वादात्मैव महानिति च विशेष्यते । तस्मादपि रथरूपितं शरीरं परम् , तदायत्तत्वाज्जीवात्मनस्सकलपुरुषार्थसाधनप्रवृत्तीनाम् । तस्मादपि परस्सर्वान्तरात्मभूतोऽन्तर्याम्यध्वनः पारभूतः परमपुरुषः, यथोक्तस्यात्मपर्यन्तस्य समस्तस्य तत्सङ्कल्पायत्तप्रवृत्तित्वात् । स खल्वन्तर्यामितयोपासनस्यापि निर्वर्तकः। १“परातु तच्छ्रुतेः" इति हि जीवात्मनः कर्तृत्वं परमपुरुषायत्तमिति वक्ष्यते । वशीकार्योपासननिर्वृत्त्युपायकाष्ठाभूतः परमप्राप्यश्च स एव । तदिदमुच्यते२ "पुरुषान्न परं किश्चित्सा काष्ठा सा परा गतिः" इति। तथाचान्तर्यामिब्राह्मणे, ३“य आत्मनि तिष्ठन्" इत्यादिभिस्सर्व साक्षात्कुर्वन्त्सर्व नियमयतीत्युक्त्वा "नान्योऽतोऽस्ति द्रष्टा" इति नियन्त्रन्तरं निषिध्यते । भगवद्गीतासुच ५“अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् । विविधाच पृथक्चेष्टा देवं चैवात्र पश्चमम्" इति । दैवमत्र पुरुषोत्तम एव ६" सर्वस्य चाहं हृदि सन्निविष्टो मत्तस्स्मृतिर्ज्ञानमपोहनं च" इति वचनात् । तस्यच वशीकरणं तच्छरणागतिरेव। यथाह ७"ईश्वरस्सर्वभूतानां हृदेशेऽर्जुन तिष्ठति । भ्रामयन् सर्वभूतानि यन्त्रारूढानि मायया । तमेव शरणं गच्छ” इति । तदेवम् ८"आत्मानं रथिनं विद्धि" इत्यादिना रथ्यादिरूपकविन्यस्ता इन्द्रियादयः "इन्द्रियेभ्यः परा ह्याः" इत्यत्र स्वशब्दैरेव प्रत्यभिज्ञायन्ते, न रथरूपितं शरीरमिति परिशेषात्तदव्यक्तशब्देनोच्यत इति निश्चीयते।अतः कापिलतन्त्रसिद्धस्य प्रधानस्य प्रसङ्ग एव नास्ति। नचात्र तत्तन्त्रसिद्धप्रक्रियाप्रत्यभिज्ञा ९"इन्द्रियेभ्यः परा ह्याः"इतीन्द्रियेभ्योऽर्थानां शब्दादीनां १. शारी. २-३-४० ॥
५. गी. १८-१४ ॥ २. कठ. १-३-११॥
६. गी. १५-१५॥ ७. गी. १८-६१, ६२ ॥ ८.कठ. १-३-३॥ ९. कठ. १-३-१०॥
३. वृ. ५-७-२२ ॥ मा. पा॥ ४. १. ५-७-२३ ॥
For Private And Personal Use Only