________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
श्रीशारीरकमीमांसाभाष्ये
[अ. १.
|
चित्सा काष्ठा सा परा गतिः" इति । तत्र सन्देहः - किं कापिलतन्त्रसिद्धमब्रह्मात्मकं प्रधानमिहाव्यक्तशब्देनोच्यते, उत न - इति । किं युक्तम् प्रधानमिति । कुतः ? १"महतः परमव्यक्तमव्यक्तात्पुरुषः परः" इति तन्त्रसिद्धतत्त्वप्रक्रियाप्रत्यभिज्ञानेन तस्यैव प्रतीतेः, “पुरुषान्नपरं किञ्चित्सा काष्ठा सा परा गतिः" इति पञ्चविंशक पुरुषातिरिक्ततत्त्वनिषेधाच्च । अतोऽव्यक्तं कारणमिति प्राप्तम् । तदिदमुक्तम्- आनुमानिकमप्येकेषामिति चेत् इति । एकेषां शाखिनां शाखास्वानुमानिकं प्रधानमपि कारणमाम्नायत इति चेत्( सिद्धान्तः ) --
अत्रोत्तरं - नेति । नाव्यक्तशब्देनाब्रह्मात्मकं प्रधानमिहाभिधीयते। कुतः शरीररूपकविन्यस्तगृहीतेः - शरीराख्यरूपकविन्यस्तस्य अव्यक्तशब्देन गृहीतेः । आत्मशरीरबुद्धिमनइन्द्रियविषयेषु रथिरथादिभावेन रूपितेषु रथरूपणेन विन्यस्तस्य शरीरस्यात्ताव्यक्तशब्देन ग्रहणादित्यर्थः । एतदुक्तं भवति - पूर्वत्र हि २" आत्मानं रथिनं विद्धि शरीरं रथमेवच । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेवच । इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान्" इत्यादिना, ३" सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्" इत्यन्तेन संसाराध्वनः पारं वैष्णवं पदं प्रेप्सन्तमुपासकं रथित्वेन तच्छरीरादीनिच रथरथाङ्गत्वेन रूपयित्वा यस्यैते रथादयो वशे तिष्ठन्ति, स एवाध्वनः पारं वैष्णवं पदमानोतीत्युक्त्वा, तेषु रथादिरूपितश
रादिषु यानि येभ्यो वशीकार्यतायां प्रधानानि तान्युच्यन्ते ४ " इन्द्रिये - भ्यः पराः" इत्यादिना । तत्र हयत्वेन रूपितेभ्य इन्द्रियेभ्यो गोचरत्वेन रूपिता विषयाः वशीकार्यत्वे पराः, वश्येन्द्रियस्यापि विषयसन्निधाविन्द्रियाणां दुर्निग्रहत्वात् । तेभ्योऽपि परं प्रग्रहरूपितं मनः, मनसि विषयप्रवणे विषयासन्निधानस्याप्यकिञ्चित्करत्वात् । तस्मादपि सारथित्वरूपिता बुद्धि: परा, अध्यवसायाभावे मनसोऽप्यकिञ्चित्करत्वात् । तस्या
१. कठ, १-३-११॥
२. कठ. १-३-३ ॥ ३. कठ. १-३-९॥ ४. कठ. १-३-१० ॥
For Private And Personal Use Only