________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामान्ये सम्परिष्वक्तः" १"प्रार्थनाऽत्मनाऽन्वारूढः" इति सुषुप्त्युत्क्रान्त्योः लुप्तसकल. विशेषविज्ञानात्प्रत्यगात्मनस्तदानीमेव सर्वज्ञतया भेदव्यपदेशात्प्रत्यगात्मनोऽर्थान्तरभूत एव परमात्मा ॥ ४३॥
पत्यादिशब्देभ्यः॥ परिष्वञ्जके प्राशे श्रूयमाणेभ्यः पत्यादिशब्देभ्यश्वायं प्रत्यगात्मनोर्थान्तरभूतः परमात्मा, २"सर्वस्याधिपतिः सर्वस्य वशी सर्वस्येशानः" इत्यादौ । ऐक्योपदेशभेदप्रतिषेधौ तु ब्रह्मकार्यत्वनिबन्धनाविति ३"तजलानिति-सर्व खल्विदं ब्रह्म" इत्यादिश्रुतिभिरेव व्यक्तौ॥४४॥
इति वेदान्तदीपे अर्थान्तरत्वादिव्यपदेशाधिकरणम् ॥ १० ॥ इति श्रीभगद्रामानुजविरचिते श्रीवेदान्तदीपे प्रथमस्याध्यायस्य
तृतीयः पादः ॥३॥
-
३. छा-३-१४-१ ॥
१. १. ६-३-३५ ॥ ३५० पुटे. १. सं. इवाम् ॥ २... ६.४.२२॥ ।
For Private And Personal Use Only