SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३५० वेदान्तसारे [भ. १. १" सर्वस्याधिपतिस्सर्वस्य वशी सर्वस्येशानः । स न साधुना कर्मणा भूयानो एवासाधुना कनीयान् । एष सर्वेश्वर एष भूताधिपति - रेष भूतपाल एष सेतुर्विधरण एषां लोकानामसम्भेदाय । तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति एतमेव विदित्वा मुनिर्भवति । एतमेव प्रवाजिनो लोकमिच्छन्तः प्रव्रजन्ति” २' स वा एष महानज आस्मान्नादो वसुदानः " ३" अजरोऽमृतोऽभयो ब्रह्म" इति। एते च पतित्वजगद्विधरणत्व सर्वेश्वरत्वादयः प्रत्यगात्मनि मुक्तावस्थेऽपि न कथञ्चित्सम्भवन्ति । अतो मुक्तात्मनोऽर्थान्तरभूतो नामरूपयोर्निर्वहिताऽऽकाशः । ऐक्योपदेशस्तु सर्वस्य चिदचिदात्मकस्य ब्रह्मकार्यत्वेन तदात्मकत्वायत्त इति ४" सर्वे खल्विदं ब्रह्म तज्जलान् " इत्यादिभिर्वाक्क्यैः प्रतिपाद्यत इति पूर्वमेव समर्थितम् । द्वैतप्रतिषेधश्च तत एवेत्यनवद्यम् ॥ ४३ ॥ इति श्रीशारीरकमीमांसाभाष्ये अर्थान्तरत्वादिव्यपदेशाधिकरणम् || इति श्रीभगवद्रामानुजविरचिते शारीरकमीमांसाभाष्ये प्रथमस्याध्यायस्य तृतीयः पादः ।। ३ ।। शङ्कयाह Acharya Shri Kailassagarsuri Gyanmandir वेदान्तसारे-अकाशोऽर्थान्तरत्वादिव्यपदेशात् ।। ५'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म" इत्यादिना निर्दिष्ट आकाशः, ६ " धूत्वा शरीरमकृतं कृतात्मा ” इति प्रकृतात्प्रत्यगात्मनः परिशुद्धादर्थान्तरभूतः परमपुरुषः, नामरूपयोः निर्वोदृत्व तदस्पर्शरूपार्थान्तरत्वामृतत्वादिव्यपदेशात् ॥ ४२॥ तत्त्वमस्यादिनैक्योपदेशात् प्रत्यगात्मनो नार्थान्तरभूतः परमपुरुष इत्या सुषुप्त्युत्क्रान्त्योर्भेदेन || ७" प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं कि १. ६-४-२२॥ सर्वस्यवशी सर्वस्येशा- | इति मुद्रितकोशे दृश्यते ॥ ४, छा. ३-१४- १॥ नस्सर्वस्याधिपतिः पा २. ब्रु. ६.४-२४॥ ५. छा. ८-१४- १॥ ६. छा.८-१३-१॥ ३. इ. ६-४-२५॥ अजरामरोमृतोभयो ब्रह्म ७. ६-३-२१ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy