________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.] अर्थान्तरत्वादिव्यपदेशाधिकरणम् . असम्भवादभिसम्भाव्यं परमेव ब्रह्म तत्र प्रत्येतव्यम्।किश्च आकाशशब्देन प्रकृतस्य दहराकाशस्यात्र प्रत्यभिज्ञानात, प्रजापतिवाक्यस्याप्युपासकखरूपकथनार्थत्वादुपास्य एव दहराकाशःप्राप्यतयेहोपसंहियत इति युक्तम्। आकाशशन्दश्च प्रत्यगात्मनि न कचिद्दष्टचरः। अतोऽत्राकाशः परं ब्रह्म।
अथ स्यात्-प्रत्यगात्मनोऽर्थान्तरभूतमात्मान्तरमेव नास्ति, ऐक्योपदेशात्, द्वैतप्रतिषेधाच; शुद्धावस्थ एव हि प्रत्यगात्मा परमात्मा परं ब्रह्म परमेश्वर इति च व्यपदिश्यते अतः प्रकृतान्मुक्तात्मनोऽभिसम्भवितुर्नार्थान्तरमभिसम्भाव्यो ब्रह्मलोकः अतो नामरूपयोर्निवहिता आकाशोऽपि स एव भवितुमर्हति-इति; अत उत्तरं पठति
सुषुप्त्युत्कान्त्योर्भेदेन । १।३।३४॥
व्यपदेशादिति वर्तते, सुषुप्त्युत्क्रान्त्योः प्रत्यगात्मनोऽर्थान्तरत्वेन परमात्मनो व्यपदेशात् प्रत्यगात्मनोऽर्थान्तरभूतः परमात्माऽस्त्येव। तथाहि-वाजसनेयके १"कतम २आत्मा योऽयं विज्ञानमयः प्राणेषु" इति प्रकृतस्य प्रत्यगात्मनस्सुषुप्त्यवस्थायामकिश्चिज्ज्ञस्य सर्वज्ञेन परमात्मना परिष्वङ्ग आम्नायते-३"प्राज्ञेनाऽत्मना सम्परिष्वक्तो न बाह्यं किश्चन वेद नान्तरम्"इति तथोत्क्रान्तावपि ४"प्राज्ञेनाऽत्मनाऽन्वारूढ उत्सर्जन्याति" इति। न च स्वपत उत्क्रामतो वा किश्चिज्ज्ञस्य तदानीमेव स्वेनैव सर्वज्ञेन सता परिष्वङ्गान्वारोही सम्भवतः न च क्षेत्रज्ञान्तरेण, तस्यापि सर्वज्ञत्वासम्भवात् ॥
इतश्च प्रत्यगात्मनोऽर्थान्तरभूतः परमात्मेत्याह
पत्यादिशब्देभ्यः । १।३।४४॥ अयं परिष्वञ्जकः परमात्मा उत्तरत्न पत्यादिशब्दैर्व्यपदिश्यते१. न. ६-३-७॥ २. आत्मेति योऽयं पा॥ ३. इ. ६-३-२१॥ ४. . ६-३-३५ ।।
For Private And Personal Use Only