SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४८ श्रीशारीरकमीमांसामान्ये (म... रूपमभिहितम् । अनन्तरं च १"विधूय पापम् " इति स एव मुक्तावस्थः प्रस्तुतः । अतोऽत्राकाशो मुक्तात्मा ॥ --(सिद्धान्तः).. इति प्राप्त उच्यते-आकाशोऽर्थान्तरत्वादिव्यपदेशात्-इति। आकाशः परं ब्रह्मः कुतः? अर्थान्तरत्वादिव्यपदेशात्। अर्थान्तरत्वव्यपदेशस्तावत् २"आकाशो ह वै नामरूपयोर्निर्वहिता" इति नामरूपयोर्निोद्वत्वं बद्धमुक्तोभयावस्थात्प्रत्यगात्मनोऽर्थान्तरत्वमाकाशस्योपपादयति। वदावस्थस्वयं कर्मवशानामरूपे भजमानो न नामरूपे निर्वोतुं शक्नुयातः मुक्तावस्थस्य जगद्व्यापारासम्भवात् ननितरां नामरूपनिर्वोतृत्वम् ईश्वरस्य तु सकलजगन्निर्माणधुरन्धरस्य नामरूपयोर्निर्वोदृत्वं श्रुत्यैव पतिपन्नम् ४" अनेन जीवेनाऽत्मनाऽनुपविश्य नामरूपे व्याकरवाणि" ५“यस्सर्वज्ञस्सर्वविधस्य ज्ञानमयं तपः । तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते" ६"सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाऽभिवदन्यदास्ते" इत्यादिषु । अतो निर्वाह्यनामरूपात्प्रत्यगात्मनो नामरूपयोर्निर्वोढाऽयमाकाशोऽर्थान्तरभूतः परमेव ब्रह्म। तदेवोपपादयति २" ते यदन्तरा" इति। यस्मादयमाकाशो नामरूपे अन्तरा-ताभ्यामस्पृष्टोऽर्थान्तरभूतः, तस्मात्तयोनिर्वोढा अपहतपाप्मत्वात्सत्यसङ्कल्पत्वाच निर्वहितेत्यर्थः। आदिशब्देन ब्रह्मत्वात्मत्वामृतत्वानि गृह्यन्ते। निरुपाधिकबृहत्त्वादयो हि परमात्मन एव सम्भवन्ति; तेनात्राकाशः परमेव ब्रह्म । यत्पुनरुक्तं २"धूत्वा शरीरम्" इति मुक्तोऽनन्वरप्रकृतः-इति तन्न,२ "ब्रह्मलोकमभिसम्भवामि"इति परस्यैव ब्रह्मणोऽनन्तरप्रकृतत्वात्। यद्यप्यभिसम्भवितुर्मुक्तस्याभिसम्भाव्यतया परं ब्रह्म निर्दिष्टम् , तथाप्यभिसम्भवितुर्मुक्तस्य नामरूपनिर्वोदृत्वा१. छा. ८-१३-१॥ । ४. छा. ६-३-२॥ २. छा...१४-१॥ ३. नसरां. पा॥ ५. मु. १.१.९॥ ६.ते. ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy