________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
मर्थान्तरत्वादिव्यपदेशाधिकरणम्.
३४७
कम्पनात् ।। अङ्गुष्ठप्रमितप्रकरणमध्ये १ "यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम् । महद्भयं वज्रमुद्यतम्” २" भयादस्याग्निस्तपति" इत्यादी प्राणशब्दनिर्दिष्ठाङ्गुष्ठप्रमितजनितभयनिमित्तादग्निवायुसूर्यप्रभृतिकृत्स्नजगत्क परमात्मैवेति निश्चीयते ॥ ४० ॥
Acharya Shri Kailassagarsuri Gyanmandir
स्पनाच्छ्रयमाणादङ्गुष्ठप्रमितः
ज्योतिर्दर्शनात्।। अस्मिन्नेव प्रकरणे तत्सम्बन्धितया ३ "न तत्र सूर्यो भाति" इत्यारभ्य ३" तस्य भासा सर्वमिदं विभाति" इति सर्वेषां छादकस्यानवधि कातिशयस्य भारशब्दाभिहितस्य ब्रह्मभूतस्य परस्य ज्योतिषो दर्शनाच्च अङ्गुष्ठप्रमितः परमात्मा ॥ ४१ ॥
इति वेदान्तदीपे प्रमिताधिकरणशेषः || ६ ||
१. कठ. २-६-२ ॥
२. कठ. २-६-३ ॥
आकाशोऽर्थान्तरत्वादिव्यपदेशात्। १।३।४२ ॥
,
छान्दोग्ये श्रूयते ४" आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा तद्ब्रह्म तदमृतं स आत्मा" इति । तत्र संशयः - किमयमाकाशशब्दनिर्दिष्टो मुक्तात्मा, उत परमात्मा - इति । किं युक्तं मुक्तात्मेति । कुतः १५“अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्प्रमुच्य । धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवामि " इति मुक्तस्यानन्तरप्रकृतत्वात्, ४' ४" ते यदन्तरा" इति च नामरूपविनिर्मुक्तस्य तस्याभिधानात् ४" नामरूपयोर्निर्वहिता " इति च स एव पूर्वावस्थयोपलिलक्षयिषितः; स एव हि देवादिरूपाणि नामानि च पूर्वमविभः तस्यैव नामरूपविनिर्मुक्ता साम्प्रतिक्यवस्था ४" तद्ब्रह्म तदमृतम् ” इत्युच्यते । आकाशशब्दच तस्मिन्नप्यसङ्कुचितप्रकाशयोगादुपपद्यते । ननु दहरवाक्यशेषत्वादस्य स एव दहराकाशोऽयमिति प्रतीयते। तस्य च परमात्मत्वं निर्णीतम् । मैवं, प्रजापतिवाक्यव्यवधानात् । प्रजापतिवाक्ये च प्रत्यगात्मनो मुक्त्यवस्थान्तं
"
३. कठ. २५-१५॥
४. छा. ८-१४-१॥
For Private And Personal Use Only
५. छा. ८-१३-१॥