________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
घेदान्तसारे
[म. १. ज्योतिर्दर्शनात् १।३।४१॥ तयोरेवाङ्गुष्ठप्रमितविषययोर्वाक्ययोर्मध्ये परब्रह्मासाधारणं सर्वतेजसां छादकं सर्वतेजसां कारणभूतमनुग्राहकं चाङ्गुष्ठप्रमितस्य ज्योतिदृश्यते-१“न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्व तस्य भासा सर्वमिदं विभाति" इति। अयमेव श्लोक आथर्वणे परं ब्रह्माधिकृत्य श्रूयते । परज्योतिष्ठं च सर्वत्र परस्य ब्रह्मणश्श्रूयते। यथा-२"परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिपद्यते" ३"तं देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम्"४“अथ यदतः परो दिवो ज्योतिर्दीप्यते" इत्यादिषु। अतोऽङ्गष्ठप्रमितः परं ब्रह्म ॥४१॥
इति श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणशेषः ॥ ६ ॥
वेदान्तसारे-५प्रासङ्गिक परिसमाप्य प्रकृतमनुसरति
कम्पनात् ॥ अङ्गष्टप्रमितप्रकरणमध्ये ६"यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम्" इत्यादिना अभिहिताङ्गुष्ठप्रमितप्राणशब्दनिर्दिष्टजनितभयात् वज्रादिवोद्यतात् अग्निवायुसूर्येन्द्रप्रभृतिकृत्स्नजगत्कम्पनात् अङ्गुष्ठप्रमितः परमपुरुष इति निश्चीयते ॥ ४० ॥
ज्योतिदशनात् ।। तत्प्रकरणे?"न तत्र सूर्यो भाति" इत्यारभ्यर "तस्य भासा सर्वमिदं विभाति" इति भाश्शब्दाभिहितस्य अनवधिकातिशयज्योतिषो दर्शनाञ्च अङ्गुष्ठप्रमितः परमपुरुषः ॥ ४१ ॥
इति वेदान्तसारे प्रमिताधिकरणशेषः ॥ ६ ॥
वेदान्तदीपे-प्रासङ्गिक परिसमाप्य प्रकृतं परिसमापयति१. कठ, २-५-१५॥
४. छा. ३-१३.७॥ ५.स्थितादुत्तरं. पा। २. छा, ८-१२-२॥
६. काठ.२-६-२॥ ३.३.६-४-१६ ॥
For Private And Personal Use Only