________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.३.]
प्रमिताधिकरणशेषः. शृण्वतः पुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति ॥ ३९॥
इति वेदान्तदीपे अपशूद्राधिकरणम् ॥ ९॥
---(श्रीशारीरकमीमांसाभाष्ये प्रमिताधिकरणशेषः ॥ )...
तदेवं प्रसक्तानुप्रसक्ताधिकारकथां परिसमाप्य प्रकृतस्याङ्गुष्ठप्रमितस्य भूतभव्येशितृत्वावगतपरब्रह्मभावोत्तम्भनं हेत्वन्तरमाह
कम्पनात् । १।३।४०॥ १“अष्ठमात्रः पुरुषो मध्य आत्मनि तिष्ठति" २“अष्ठमात्रः पुरुषोऽन्तरात्मा" इत्यनयोर्वाक्ययोर्मध्ये ३“यदिदं किञ्च जगत्सर्व प्राण एजति निस्सृतम्।महद्भयं वज्रमुद्यतं य एतद्विदुरमृतास्ते भवन्ति। भयादस्याग्निस्तपति भयात्तपति सूर्यः। भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः" इति कृत्वस्य जगतोऽग्निसूर्यादीनां चास्मिन्नष्ठमात्रे पुरुषे प्राणशब्दनिर्दिष्टे स्थितानां सर्वेषां ततो निस्स्तानां तस्मात्सञ्जातमहाभयनिमित्तम् एजन कम्पनं श्रूयते। तच्छासनातिवृत्तौ कि भविष्यतीति महतो भयाद्वजादिवोघतात्कृत्स्नं जगत्कम्पत इत्यर्थः। ३"भयादस्याग्निस्तपति"इत्यनेनैकार्थ्यात् ३"महद्भयं वज्रमुद्यतम्"इति पञ्चम्यर्थे प्रथमा। अयश्च परस्य ब्रह्मणस्खभावः ४"एतस्य वा अक्षरस्य प्रशासने गार्गि सूर्याचन्द्रमसौ विधृतै तिष्ठतः" ५"भीषाऽस्माद्वातः पवते भीषोदेति सूर्यः। भीषाऽस्मादग्निश्चेन्द्रश्च। मृत्युर्धावति पञ्चमः" इति परस्य ब्रह्मणः पुरुषोत्तमस्यैवंविधैश्वर्यावगतः।। __इतश्चाङ्गष्ठपमितः पुरुषोत्तमः१. कठ. २.४.१२॥ २.कठ. २-६-१७॥ ४. इ. ५-८-९ ॥ ५. ते. आ. ८.१॥ ३. पा. २-६-३, २॥
44
For Private And Personal Use Only