SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४४ घेदान्तदीपे न शूद्रस्याधिकार सूत्रार्थस्तु-ब्रह्मविद्यावैकल्येन हंसोक्तानादरवाक्यश्रवणात् तदैवाचार्य प्रत्याद्रवणाचाचार्येण तस्य शुश्रूषोर्विद्याऽलाभकृता शुक्सूच्यते । हिशब्दो हेतौ । यस्मादस्य शुक्सूच्यते, अतश्शोचनाच्छूद्रइति कृत्वा आचार्यो रैकः जानश्रुति शूद्रेत्यामन्त्रयते; न जातियोगेनेत्यर्थः ॥ ३३ ॥ क्षत्रियत्वगतेश्च ॥ अस्य शुश्रूषोः क्षत्रियत्वावगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम् ; प्रकरणप्रक्रमे हि १"बहुदायी'इत्यादिना दानपतित्वबहुतर. पक्कानदायित्वक्षत्तृप्रेषणबहुग्रामादिप्रदानैरस्य जानश्रुतेश्शुश्रूषोः क्षत्रियत्वं प्रतीतम् ॥ ३४॥ उत्तरत्र चैत्ररथेन लिङ्गात्।। उपरिष्टाचास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवान्वयो दृश्यते २" अथह शौनकं च कापेयमभिप्रतारिणश्च" इत्यादिना । अभिप्रतारी हि चैत्ररथः क्षत्रियः१ अभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं व कापेयसाहचर्याल्लिङ्गावगम्यते; प्रकरणान्तरे हि कापेयसहचारिणः चैत्ररथत्वं क्षत्रियत्वञ्चावगतम् ३"एतेन वै चैत्ररथं कापेया अयाजयन्” इति ४"त. स्माश्चैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतोऽस्यां विद्यायामन्वितो ब्राह्मणादितरो जानश्रुतिरपि क्षत्रियो भवितुमर्हति ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच॥ विद्योपदेशे५ "उप त्वा नेप्ये" इत्युपनयनसंस्कारपरामर्शात् , शूद्रस्य तदभाववचनाच्चानधिकारः । ६"न शूद्रे पातकं किञ्चिन्न च संस्कारमहति" इति हि निषिध्यते ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः ॥ ५ " नैतब्राह्मणो विवक्तुमर्हति समिधं सौम्याहर" इति शुश्रूषोर्जाबालेश्शूदत्वाभावनिश्चय एवोपदेशे प्रवृ. तेनाधिकारः ॥ ३७॥ श्रवणाध्ययनार्थप्रतिषेधात्।।शूद्रस्य श्रवणाध्ययनादीनि हि प्रतिषिभ्यन्ते ७'तस्माच्छद्रसमीपे नाध्येतव्यम्" इति। अनुपशृण्वतोऽध्ययनादिर्न सम्भवति ॥ ३८॥ स्मृतेश्च ॥ स्मर्यते च शूद्रस्य वेदश्रवणादौ दण्डः ८"अथहास्य वेदमुप१. छा-४-१-१॥ ४. शत-११-५-३-१३॥ २. छा ४-३-५॥ ५. छा ४-४.५॥ ६. ममु.१०.१२.६॥ १. ताण्ख्य -२-१२-५ ८. गौत-१२-३ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy