________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा. ३.]
भपशूद्राधिकरणम् . कारः । १"न शूद्रे पातकं किञ्चित् न च संस्कारमहति" इति संस्कारो हि निषिदः ॥ ३६॥
तदभावनिर्धारणे च प्रवृत्तेः।। २"नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर” इति शूद्रत्वाभावनिश्चय एव उपदेशप्रवृत्तेश्च नाधिकारः॥
श्रवणाध्ययनार्थप्रतिषेधात् ॥ शुद्रस्य भवणाध्ययनादीनि हि निषिध्यन्ते, ३"तस्माच्छूद्रसमीपे नाध्येतव्यम्' इति । अनुपशृण्वतोऽध्ययनादि च न सम्भवति ॥ ३८॥
स्मृतेश्च ॥ स्मर्यते हि शूद्रस्य वेदश्रवणादौ दण्डः४"अथहास्य घेदमुपशृण्वतः त्रपुजतुभ्यां श्रोत्रप्रतिपूरणम् , उदाहरणे जिह्वाच्छेदः, धारणे शरीरभेदः" इति ॥ ३९॥
इति वेदान्तसार अपशूद्राधिकरणम् ॥
-
वेदान्तदीपे-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिब्रह्म विद्यायां शूद्रस्याप्यधिकारोऽस्ति नेति संशयः। अस्तीति पूर्वः पक्षः, अर्थित्वसामर्थ्यसम्भवात् ,शुद्रस्यानग्नि५विद्यत्वेऽपि मनोवृत्तिमात्रत्वादुपासनस्य सम्भवति हि सामर्थ्यम्।ब्रह्मस्वरूपतदुपासनप्रकारज्ञानश्च इतिहासपुराणश्रवणादेव निष्प चते। अस्ति हि शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा "श्रावयेश्चतुरो वर्णान्कृत्वा प्राङ्गणमग्रतः" इति । तथा तत्रैव विदुरादीनां ब्रह्मनिष्ठत्वं दृश्यते। उपनिषत्स्वपि ७"आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः" इति शूद्रशब्देनामन्त्र्य ब्रह्मविघोपदेशदर्शनाच्छद्रस्यापीहाधिकारस्सूच्यते। राद्धान्तस्तु-उपासनस्य मनोवृ. त्ति८मात्रत्वेऽप्यनधीतवेदत्य शूद्रस्य उपासनोपायभूतज्ञानासम्भवात् न साम
र्थ्यसम्भवः । कर्मविधिवदुपासनाविधयोऽपि त्रैवर्णिकविषयाध्ययनगृहीतस्वा. भ्यायोत्पन्नशानमेवोपासनोपायतया स्वीकुर्वते । इतिहासादयोऽपि स्वाभ्यायसिद्वमेव ज्ञानमुपव्हयन्तीति ततोऽपि नास्य ज्ञानलाभः। श्रवणानुक्षातु पापक्षयादिफला । विदुरादीनां तु भवान्तरवासनया ज्ञानलाभाब्रह्मनिष्ठत्वम्। शुद्रेत्या. मन्त्रणमपि न चतुर्थवर्णत्वेन; अपितु ब्रह्मविद्यावैकल्याच्छुगस्य संजातेति। अतो १. मनु-१०-१२६ ॥
५. अननिमत्त्वेऽपि. पा॥ २, छा-४.४.५॥
६. भारते. शा. मो॥ ७. छा-४.१.५॥ ४. गौ-१२-१॥ ८. मनोवृत्तिमात्रनिलंसेऽपि पा
For Private And Personal Use Only