SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४२ बेदान्तसारे [म.१. तपरमपुरुषप्रीणनम्, तच्च शास्त्रैकसमधिगम्यम्,उपासनशास्त्रं चोपनयनादिसंस्कृताधीतस्वाध्यायजनितं ज्ञानं विवेकविमोकादिसाधनानुगृहीतमेव खोपायतया स्वीकरोति, एवंरूपोपासनप्रीतः पुरुषोत्तम उपासकं स्वाभाविकात्मयाथात्म्यज्ञानदानेन कर्मजनिताज्ञानं नाशयन्बन्धान्मोचयतीति पक्षः तस्य यथोक्तया नीत्या शूद्रादेरनधिकार उपपद्यते ॥ इति श्रीशारीकमीमांसाभाष्ये अपशूद्राधिकरणम् ॥ वेदान्तसारे-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि॥ १"आज. हारेमाश्शूद्र" इत्यादौ ब्रह्मोपदेशे शिष्यं प्रति शूद्रेत्यामन्त्रणेन शिष्यस्य ब्रह्मशानापास्या शुक्सातेति सूच्यते । शोचनाच्छूद्रः, न जातियोगेन । कुतः तदनादरश्रवणात्-ब्रह्मविद्यापैकल्येन स्वात्मानं प्रति हंसोक्तानादरवाक्यश्रव. णात् । तदैवाचार्य प्रति आद्रवणात्: हिशब्दो हेतौ; यतश्शूद्रेत्यामन्त्रणं न जातियोगेन; अतश्शूद्रस्य ब्रह्मोपासनाधिकारो न सूच्यते ॥ ३३॥ ___ क्षत्रियत्वगतेश्च ॥ शुश्रूषोः क्षत्रियत्वगतेश्च न जातियोगेन शूद्रेत्यामन्त्रणम् ; उपक्रमे २" बहुदायी" इत्यादिना दानपतित्वबहुपक्वान्नदायित्वबा. प्रामप्रदानैरस्य हि क्षत्रियत्वं गम्यते ॥ ३४॥ उत्तरत्र चैत्ररथेन लिङ्गात् ॥ उपरिष्टाश्चास्यां विद्यायां ब्राह्मणक्षत्रिययोरेवाग्वयो दृश्यते ३"अथह शौनकञ्च कापेयमभिप्रतारिणश्च" इत्यादौ । अभिप्रतारी हि चैत्ररथः ; अभिप्रतारिणः चैत्ररथत्वम् , क्षत्रियत्वं च कापेयसाहचर्याल्लिङ्गादवगम्यते । प्रकरणान्तरे हि कापेयसहचारिणश्चैत्ररथत्वम् , क्षत्रियत्वं चावगतम् , ४" एतेन चैत्ररथं कापेया अयाजयन्" इति । ५"तस्माचैत्ररथो नामैकः क्षत्रपतिरजायत" इति च । अतश्च अयं शिष्यः न चतुर्थः ॥ ३५॥ संस्कारपरामर्शात्तदभावाभिलापाच।। विद्योपक्रमे ६"उप त्वा नेप्ये" इत्युपनयनपरामर्शात् शूद्रस्य तदभावाभिलापाच न शूद्रस्य ब्रह्मविघाधि१. छा-४.२-५॥ २. छा.४-१-१॥ ५. शत११-५-३-१३॥ ३. छा-४-३-५॥ ४. ताण्ड्य -१२-५॥ ६. छा-४-४.५ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy