________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पा.
अपशद्राधिकरणम्. संस्कारपरामर्शात्तदभावाभिलापाच्च ।
१।३ । ३६ ॥ ब्रह्मविद्योपदेशेषूपनयनसंस्कारः परामृश्यते-१"उप त्वा नेष्ये" २"तं होपनिन्ये"इत्यादिषु। शूद्रस्य चोपनयनादिसंस्काराभावोऽभिलप्यते -३"न शुढे पातकं किञ्चिन्न च संस्कारमर्हति" ४"चतुर्थो वर्ण एकजातिर्न च संस्कारमर्हति" इत्यादिषु ॥ ३६॥ तदभावनिर्धारणे च प्रवृत्तेः। १।३।३७॥
१"नैतदब्राह्मणो विवक्तुमर्हति समिधं सोम्याहर"इति शुश्रूषोर्जाबालस्य शूद्रत्वाभावनिर्धारणे सत्येव विद्योपदेशप्रवृत्तेश्च न शूद्रस्याधिकारः॥३७॥ श्रवणाध्ययनार्थप्रतिषेधात् १।३।३८॥
शूद्रस्य वेदश्रवणतदध्ययनतदर्थानुष्ठानानि प्रतिषिध्यन्ते ५“पा ह वा एतच्छमशानं यच्छूद्रस्तस्माच्छूद्रसमीपे नाध्येतव्यम्" ६"तस्माच्छद्रो बहुपशुरयज्ञीयः" इति। बहुपशुः पशुसदृश इत्यर्थः।अनुपशृण्वतोऽध्ययनतदर्थज्ञानतदर्थानुष्ठानानि न सम्भवन्ति अतस्तान्यपि प्रतिषिद्धान्येव॥३८॥
स्मृतेश्च । १।३। ३९॥ स्मयते च श्रवणादिनिषेधः ॥ अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां शोनप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः" इति,
"न चास्योपदिशेद्धर्म नचास्य व्रतमादिशेत्" इति च; अतश्शूद्रस्यानधिकार इति सिद्धम् ।। ३९ ॥
१. छा-४.४-५॥
२. आपस्त. औत॥ ३. मनु-१०-१२६॥ ४. गोत. १०.अ. ९-सू॥
२. २-१२-३॥ ८. मनु. ४-८०॥
For Private And Personal Use Only