________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३८
श्रीशारीरकमीमांसाभाष्ये तदेवमुपक्रमगताख्यायिकायां क्षत्रियत्वप्रतीतिरुक्ता; उपसंहारगताख्यायिकायामपि क्षत्रियत्वमस्य प्रतीयत इत्याहउत्तरत्र चैत्ररथेन लिङ्गात् १ । ३ । ३५॥
अस्य जानश्रुतेरुपदिश्यमानायामस्यामेव संवर्गविद्यायामुत्तरत्र कीर्त्यमानेनाभिप्रतारिनाम्ना चैत्ररथेन क्षत्रियेणास्य क्षत्रियत्वं गम्यते । कथम् ? १“अथ ह शौनकं च कापेयमभिप्रतारिणं च काक्षसेनि परिविष्यमाणौ ब्रह्मचारी बिभिक्षे" इत्यादिना २ "ब्रह्मचारिनेदमुपास्महे" इत्यन्तेन कापेयाभिप्रतारिणोभिक्षमाणस्य ब्रह्मचारिणश्च संवर्गविद्यासम्बन्धित्व प्रतीयते । तेषुचाभिप्रतारी क्षत्रियः,इतरौ ब्राह्मणौः अतोऽस्यां विद्यायां ब्राह्मणस्य तदितरेषु च क्षत्रियस्यैवान्वयो दृश्यते न शूद्रस्य । अतोऽस्यां विद्यायामन्वितारैकाड्राह्मणादन्यस्य जानश्रुतेरपि क्षत्रियत्वमेव युक्तम् न चतुर्थवर्णत्वम्। नन्वस्मिन्प्रकरणेऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च न श्रुतम् । तत्कथमस्याभिप्रतारिणश्चैत्ररथत्वम् ? कथं वा क्षत्रियत्वम् ? तत्राह-लिङ्गात्-इति। १“अथह शौनकंच कापेयमभिप्रतारिणं च काक्षसेनिम्" इत्यभिप्रतारिणः कापेयसाहचर्याल्लिङ्गादस्याभिप्रतारिणः कापेयसम्बन्धः प्रतीयते; अन्यत्र च ३"एतेन वै चैत्ररथं कापेया अयाजयन्" इति कापेयसम्बन्धिनश्चैत्ररथत्वं श्रूयते; तथा चैत्ररथस्य क्षत्रियत्वं ४"तस्माच्चैत्ररथो नामैकः क्षत्रपतिरजायत" इतिः अतोऽभिप्रतारिणश्चैत्ररथत्वं क्षत्रियत्वं च गम्यते ॥ ३५ ॥
तदेवं न्यायविरोधिनि शूद्रस्याधिकारे लिङ्ग नोपलभ्यत इत्युक्तम्, इदानी न्यायसिद्धश्शूद्रस्यानधिकारश्श्रुतिस्मृतिभिरनुगृह्यत इत्याह१. छा-४.३-५॥
३. ताज्य-२-१२-५॥ २.छा-४-३-७॥
४. शतपथ, ११.५-३.१९॥
For Private And Personal Use Only