________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पा. ३. ]
अपशूद्राधिकरणम्
३३७
"
पास्से” इति त्वदुपास्यां परां देवतां ममानुशाधीत्यर्थः । स च रैकस्वयोगमहिमविदितलोकत्रयो जानश्रुतेर्ब्रह्मज्ञानविधुरतानिमित्तानादरगर्भहंसवाक्यश्रवणेन शोकाविष्टतां तदनन्तरमेव ब्रह्मजिज्ञासयोद्योगं च विदित्वाऽस्य ब्रह्मविद्यायोग्यतामभिज्ञाय चिरकालसेवां विना द्रव्यप्रदानेन शुश्रूषमाणस्यास्य यावच्छक्तिप्रदानेन ब्रह्मविद्या प्रतिष्ठिता भवतीति मत्वा तमनुगृह्णन् तस्य शोकाविष्टतामुपदेशयोग्यताख्यापिकां शूद्रशब्देनामन्त्रणेन ज्ञापयन्निदमाह - १" अहहारे त्वा शूद्र तवैव सह गोभिरस्तु ” इति। सह गोभिरयं रथस्तवैवास्तुः नैतावता मह्यं दत्तेन ब्रह्मजिज्ञासया शोकाविष्टस्य तव ब्रह्मविद्या प्रतिष्ठिता भवतीत्यर्थः । स च जानश्रुतिर्भूयोऽपि स्वशक्त्यनुगुणमेव गवादिकं धनं कन्यां च प्रदायोपससाद । स रैकः पुनरपि तस्य योग्यतामेव ख्यापयन् शूद्रशब्देनामन्त्रयाह२" आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः " इति । इमानि धनानि शत्यनुगुणान्याजहर्थः अनेनैव द्वारेण चिरसेवया विनाऽपि मां त्वदभिलषितं ब्रह्मोपदेशरूपवाक्यमालापयिष्यसीत्युक्त्वा तस्मा उपदिदेश । अतश्शूद्रशब्देन विद्योपदेशयोग्यताख्यापनार्थ शोक एवास्य सूचितः न चतुर्थवर्णत्वम् ॥ ३३ ॥
क्षत्रियत्वगतेश्च । १ । ३ । ३४ ॥
Acharya Shri Kailassagarsuri Gyanmandir
४ ' ' बहुदायी" इति दानपतित्वेन ४ " बहुपाक्यः" इत्यादिना ४" सर्वत एवमेतदन्नमत्स्यन्ति" इत्यन्तेन बहुतरपकान्नमदायित्वमतीतेः ५" सहसञ्जिहान एव क्षत्तारमुवाच " इति क्षतृप्रेषणाद्व हुग्रामप्रदानावगतजनपदाधिपत्याच्चास्य जानश्रुतेः क्षत्रियत्वप्रतीतेश्च न चतुर्थवर्णत्वम् ॥ ३४ ॥
१. छा-४-२-३ ॥
२. छा-४-२५॥ ३. सूचितो भवति. पा॥
43
४, छा-४-१-१ ॥
५. छा-४-१-५ ॥
For Private And Personal Use Only