SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३३६ www.kobatirth.org श्रीशारीरकमीमांसाभाष्ये [अ. १. यश्व-संवर्गविद्यायां शुश्रूषोश्शूद्रेति सम्बोधनं शूद्रस्याधिकारं मचयति - इति; तनेत्याह-शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिशुश्रूषोजनश्रुतेः पौत्रायणस्य ब्रह्मज्ञानवैकल्येन हंसोक्तानादरवाक्यश्र वणात्तदैव ब्रह्मविदो रैकस्य सकाशं प्रत्याद्रवणाच्छुगस्य सञ्जातेति हि सूच्यते ; अतस्स शूद्रेत्यामन्त्रयते, न चतुर्थवर्णत्वेन । शोचतीति हि शूद्रः १" शुचेर्दश्व" इति रप्रत्यये धातोश्च दीर्घे चकारस्य च दकारे शूद्र इति भवति । अतश्शोचितृत्वमेवास्य शूद्रशब्दप्रयोगेन सूच्यते; न जातियोगः। जानश्रुतिः किल पौत्रायणो बहुद्रव्यप्रदो बहनप्रदश्च बभूव । तस्य धार्मिकाग्रेसरस्य धर्मेण प्रीतयोः कयोश्चिन्महात्मनोरस्य ब्रह्मजिज्ञासामुत्पिपादयिषतोः हंसरूपेण निशायामस्याविदूरे गच्छतोरन्यतर इतरमुवाच - २" भो भोयि भल्लाक्ष भल्लाक्ष जानश्रुतेः पौत्रायणस्य समं दिवा ज्योतिराततं तन्मा प्रसाहीस्तत्त्वा मा प्रधाक्षीत्" इति । एवं जानश्रुतिमर्शसारूपं वाक्यमुपश्रुत्य परो हंसः प्रत्युवाच - ३ “कम्बर एनमेतत्सन्तंसयुग्वानमिव रैकमात्थ" इति । कं सन्तमेनं जानश्रुतिं सयुग्वानं रैकं ब्र afra गुणश्रेष्ठमेतदात्थ ; स ब्रह्मज्ञो रैक्व एव लोके गुणवत्तरः महता धर्मेण संयुक्तस्याप्यस्य जानश्रुतेरब्रह्मज्ञस्य को गुणः, यद्गुणजनितं तेजो रैकतेज इव मां दहेदित्यर्थः । एवमुक्तेन परेण कोऽसौ रैंक इति पृष्टः लोके यत्किंचित्साध्वनुष्ठितं कर्म, यच्च सर्वचेतनगतं विज्ञानम्, तदुभयं यदीयज्ञानकर्मान्तर्भूतम् स रैक इत्याह । तदेतद्धंसवाक्यं ब्रह्मज्ञानविधुरतया आत्मनिन्दागर्भ तद्वत्तया च रेकप्रशंसारूपं जानश्रुतिरुपश्रुत्य तत्क्षणादेव क्षत्तारं रैकान्वेषणाय प्रेष्य तस्मिन्विदित्वा आगते स्वयमपि रैकमुपसद्य गवां षट्छतं निष्कमश्वतरी रथं च रैकायोपहृत्य रैकं प्रार्थयामास ५" अनुम एतां भगवो देवतां शाधि यां देवतामु १. उदिषु ॥ २. छा. ४-१-२ ॥ Acharya Shri Kailassagarsuri Gyanmandir ३. छा. ४-१-३॥ ४. मासाब. पा ॥ ५. छा, ४-२-२ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy