SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३५ पा.३.] मपराद्राधिकरणम्. द्रस्यापि स्ववर्णोचितपूर्ववर्णशुश्रूषैव क्रिया भविष्यति।१"तस्माच्छूद्रो यझेऽनवकृप्तः इत्यप्यग्निविद्यासाध्ययज्ञादिकर्मानधिकार एव न्यायसिद्धोऽनूद्यते। नन्वनधीतवेदस्याश्रुतवेदान्तस्य ब्रह्मस्वरूपतदुपासनप्रकारानभिज्ञस्य कथं ब्रह्मोपासनं सम्भवति उच्यते-अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापीतिहासपुराणश्रवणेनापि ब्रह्मस्वरूपतदुपासनज्ञानं सम्भवति। अस्तिच शूद्रस्यापीतिहासपुराणश्रवणानुज्ञा २"श्रावयेच्चतुरो वर्णान्कृत्वा ब्राह्मणमग्रतः"इत्यादौ। दृश्यन्तेचेतिहासपुराणेषु विदुरादयो ब्रह्मनिष्ठाः। तथोपनिषत्स्वपि संवर्गविद्यायां शूद्रस्यापि ब्रह्मविद्याधिकारः प्रतीयते-शुश्रूषं हि जानश्रुतिमाचार्यो रैकश्शूद्रेत्यामन्त्रय तस्मै ब्रह्मविद्यामुपदिशति३" आजहारेमाश्शूद्रानेनैव मुखेनालापयिष्यथाः" इत्यादिना । अतश्शूद्रस्याप्यधिकारस्सम्भवति ॥ ___---(सिद्धान्तः).-.इति प्राप्त उच्यते-न शुद्रस्याधिकारस्सम्भवति, सामर्थ्याभावात् । नहि ब्रह्मस्वरूपतदुपासनप्रकारमजानतस्तदङ्गभूतवेदानुवचनयज्ञादिष्वनधिकृतस्योपासनोपसंहारसामर्थ्यसम्भवः; असमर्थस्य चार्थित्वसद्भावे ऽप्यधिकारो न सम्भवति; असामर्थ्य च वेदाध्ययनाभावात् , यथैव हि त्रैवर्णिकविषयाध्ययनविधिसिद्धस्वाध्यायसम्पाद्यज्ञानलाभेन कर्मविधयो ज्ञानतदुपायादीनपरान स्वीकुर्वन्ति तथा ब्रह्मोपासनविषयोऽपि । अतोऽध्ययनविधिसिद्धस्वाध्यायाधिगतज्ञानस्यैव ब्रह्मोपासनोपायत्वा - च्छूद्रस्य ब्रह्मोपासनसामर्थ्यासम्भवः । इतिहासपुराणे अपि वेदोपबृंहण कुर्वती एवोपायभावमनुभवतः न खातन्त्रयेण शूद्रस्येतिहासपुराणश्रवणानुज्ञानं, पापक्षयादिफलार्थम् नोपासनार्थम् । विदुरादयस्तु भवान्तराधिगतज्ञानाप्रमोषात् ज्ञानवन्तः प्रारब्धकर्मवशाच्चेदृशजन्मयोगिन इति तेषां ब्रह्मनिष्ठत्वम् ॥ १. या. का. ७-१-१-१॥ २. मारते. शान्ति. मोक्ष॥ ३. छा, ४.२-५॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy