________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रीशारीरकमीमांसामाग्ये
[म. १. वस्खादीनामधिकारस्सम्भवति-इति। सूत्रार्थस्तु-मधुविद्यादिषु वखादीनाम नधिकारं जैमिनिर्मन्यते, असम्भवात्-वस्वादीनामेवोपास्यानामुपासकत्वासम्भवात् , वसुत्वादेः प्राप्तत्वादेव प्राप्यत्वासम्भवाश्च ॥ ३०॥
ज्योतिषि भावाच।। १"तं देवा ज्योतिषां ज्योतिरायुहोपासतेऽमृतम्" इति ज्योतिषि परस्मिन् ब्रह्मणि देवमनुष्ययोरधिकारसाधारण्ये सत्यपि, ज्योतिषां ज्योतिः परं ब्रह्म देवा उपासते इति विशेषवचनं वस्खादीनां कर्मकर्तृभावविरोधात्तेषु तेषामनधिकारं द्योतयति । देवाः इति सामान्यवचनश्च वखादिविशेषविषयमित्यवगम्यते, अन्येषामविरोधात् ॥ ३१ ॥
भावंतु बादरायणोऽस्ति हि ॥ तुशब्दः पक्षं व्यावर्तयति । वस्खादीनां मधुविद्यादिष्वधिकारसद्भावं भगवान् बादरायणो मन्यते, अस्ति हि वखादीनामेवोपास्यत्वं प्राप्यत्वञ्च । इदानीं वसूनामेव सतां कल्पान्तरे वसुत्वस्य प्राप्यत्वसम्भवात्प्राप्यत्वं सम्भवति । स्वात्मनां ब्रह्मभावानुसन्धानसम्भवादुपा स्यत्वश्च सम्भवति। २“य एतामेवं ब्रह्मोपनिषदं वेद" इति हि कृत्स्नाया मधु विद्यायाः ब्रह्मविद्यात्वमवगम्यते ॥ ३२॥
इति वेदान्तदीपे मध्वधिकरणम् ॥ ८ ॥ --(श्रीशारीरकमीमांसाभाष्ये अपशूद्राधिकरणम् ॥ ९ ॥)...
शुगस्य तदनादरश्रवणात्तदाद्रवणा
त्सूच्यते हि । १ । ३ । ३३ ॥ ब्रह्मविद्यायां शूद्रस्याप्यधिकारोऽस्ति नवेति विचार्यते किं युक्तम्? अस्तीति। कुतः? अर्थित्वसामर्थ्यप्रयुक्तत्वादधिकारस्य, शूद्रस्यापि तत्सम्भवात्। यद्यप्यग्निविद्यासाध्येषु कर्मखनग्निविद्यत्वाच्छूद्रस्यानधिकार, तथापि मनोवृत्तिमात्रत्वाद्ब्रह्मोपासनस्य तत्राधिकारोऽस्त्येव. शास्त्रीयक्रियापेक्षत्वेऽप्युपासनस्य तत्तद्वर्णाश्रमोचितक्रियाया एवापेक्षितत्वाच्छ्
१.१.६.४-१६॥
२. छा. ३-११-१॥
For Private And Personal Use Only