SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पा. ३.] मवधिकरणम् वेदान्तसारे-मध्वादिष्वसम्भवादनधिकारं जैमिनिः॥ मधुविद्यादिषु वस्खादिदेवानामेव उपास्यत्वात् , प्राप्यत्वाच, तत्र वखादीनां कर्मकर्तृभापविरोधेन उपास्यत्वासम्भवात्, वसूनां सतां वसुत्वं प्राप्तमिति प्राप्यत्वासम्भवाच तत्र वस्वादीनामनधिकारं जैमिनिमने ॥ ३०॥ ज्योतिषि भावाच ॥१"तं देवा ज्योतिषां ज्योतिरायुर्योपासतेऽमृतम्" इति ज्योतिषि परस्मिन् ब्रह्मणि देवानां साधारण्येन प्राप्तत्वेऽपि अधिकारमा प्रवचनात् अन्यत्र वस्वाद्युपासने अनधिकारो न्यायसिद्धोगम्यते ॥ ३१ ॥ भावंतु बादरायणोऽस्ति हि ॥ मधुविद्यादिवपि वस्वादीनामधिकारभा भगवान् बादरायणो मन्यते । अस्तिहि वस्वादीनां सतां स्वावस्थब्रह्मण उपास्यत्वसम्भवः, कल्पान्तरे वसुत्वादेः प्राप्यत्वसम्भवश्व। २"एकल एव मध्ये स्थाता" इत्यादिना आदित्यस्य कारणावस्थां प्रतिपाद्य, ३“य एतामेवं ब्रह्मोपनिषदं वेद" इति मधुविद्यायाः ब्रह्मविद्यात्वमाह । अतः कार्यकारणोभयावस्थं तत्रोपास्यम् ; कल्पान्तरे वस्खादित्वमनुभूय अधिकारावसाने ब्रह्मप्राप्तिन विरुद्धा ॥ ३२॥ इति वेदान्तसारे मध्वधिकरणम् ॥ ८॥ वेदान्तदीपे-मध्वादिष्वसम्भवादनधिकारं जैमिनिः ॥ छान्दोग्ये ४"असौ वा आदित्यो देवमधु" इत्युपक्रम्य ५“तद्यत्प्रथममृतं तद्वसव उपजीवन्ति" इत्युक्त्वा,६"स य एतदेवममृतं वेद वसूनामेवैको भूत्वाऽग्निनैव मुखेनैतदे. वामृतं दृष्ट्रा तृप्यति" इत्यादिना ऋग्यजुस्सामादिवेदोदितकर्मसम्पायरसाधारतया मधुमयस्यादित्यस्य पूर्वदक्षिणपश्चिमोत्तरोशिान्वसुरुद्रादित्यमरुत्साध्यनाम्नां देवगणानां भोग्यत्वेनाभिधाय, तैर्भुज्यमानाकारणादित्यांशानुपास्यानुपदिश्य, तानेवाऽदित्यांशान् तथाभूतान्प्राप्यानुपदिशति । एवमादिषपासनेषु वस्खादित्यादीनामधिकारोऽस्ति,न वेति संशयः । नास्त्यधिकार इति पूर्वः पक्षः, वस्वादीनामुपास्यान्तर्गतत्वेन कर्मकर्तृभावविरोधात् , प्राप्यस्य वसुत्वादेः प्राप्तत्वाश्च । राद्धान्तस्तु-ब्रह्मण एव तदवस्थस्योपास्यत्वाद्वस्वादीनां सतां खावस्थब्रह्मानुसन्धानाविरोधात् , कल्पान्तरे वसुत्वादेः प्राप्यत्वाविरोधाच १.१. ६-४-१६॥ ४. छा. ३-११-१॥ २. छा. ३-११.१॥ ५. छा. ३-६-१॥ ३.छा. ३-११-१॥ ६. छा. ३.६-३॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy