SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३३२ श्रीशारीरकमीमांसाभाष्ये [म... ---(सिद्धान्त सू०) --- इति प्राप्तेऽभिधीयतेभावं तु बादरायणोऽस्ति हि । १।३।३२॥ आदित्यवस्वादीनामपि तेष्वधिकारभावं भगवान्बादरायणो मन्यते। अस्ति ह्यादित्यवस्वादीनामपि स्वावस्थब्रह्मोपासनेन वखादित्वमाप्तिपूर्वकब्रह्मप्रेप्सासम्भवः । इदानीं वस्तादीनामपि सतां कल्पान्तरेऽपि वखादित्वप्राप्तिश्चापेक्षिता भवति। अत्र हि कार्यकारणोभयावस्थब्रह्मोपासनं विधीयते १“असौ वा आदित्यो देवमधु" इत्यारभ्य २“अथ तत ऊर्ध्व उदेत्य" इत्यतः प्रागादित्यवस्वादिकार्यविशेषावस्थं ब्रह्मोपास्यमुपदिश्यते; २“अथ तत ऊर्ध्व उदेत्य" इत्यादिना आदित्यान्तरात्मतयाऽवस्थितं कारणावस्थमेव ब्रह्मोपास्यमुपदिश्यते। तदेवं कार्यकारणोभयावस्थं ब्रह्मोपासीवः कल्पान्तरे वस्खादित्वं प्राप्य तदन्ते कारणं परं ब्रह्मैवानोति । ३"न ह वा अस्मा उदेति न निम्रोचति सकृद्दिवा हैवास्मै भवति य एतामेवं ब्रह्मोपनिषदं वेद" इति कृत्स्नाया मधुविद्याया ब्रह्मोपनिषत्त्वश्रवणाद्ब्रह्मप्राप्तिपर्यन्तवस्खादित्वफलस्य श्रवणाच वस्वादिभोग्यभूतादित्यांशस्य विधीयमानमुपासनं तदवस्थस्यैव ब्रह्मण इत्यवगम्यते। अत एवंविधमुपासनमादित्यवस्वादीनामपि सम्भवति । एवञ्च ब्रह्मण एवोपास्यत्वात् ४"तं देवा ज्योतिषां ज्योतिः" इत्यप्युपपद्यते। तदाह वृत्तिकारः ५"अस्ति हि मध्वादिषु सम्भवो ब्रह्मण एव सर्वत्र निचाय्यत्वात्" इति।। इति श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम् ॥ ८॥ । १, छा. ३.१-१॥ १, छा, ३.११-१॥ ६.का. ३.११-३॥ ४. ६. ६-४-१६ ।। ५. बोधायनवृत्तिः ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy