SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org मष्वधिकरणम्. Acharya Shri Kailassagarsuri Gyanmandir पा. ३. ] ३३१ स्वरूपस्वाराधनतत्फलयाथात्म्यावबोधिवेदं स्वस्वरूपवन्नित्यमेव पूर्वानुपूर्वीषि - शिष्टं स्मृत्वाऽविष्करोति । अतो देवादीनां ब्रह्मविद्याधिकारे न कश्चिद्विरोधः ॥ इति वेदान्तदीपे देवताधिकरणम् ॥ ७ ॥ (श्रीशारीरकमीमांसाभाष्ये मध्वधिकरणम् ॥। ८ ।।) ० ( पूर्वपक्ष सू० ) - मध्वादिष्वसम्भवादनधिकारं जैमिनिः | १|३ | ३० ॥ ब्रह्मविद्यायां देवादीनामप्यधिकारोऽस्तीत्युक्तम् ; इदमिदानीं चिन्त्यते येषूपासनेषु या देवता एवोपास्यास्तेषु तासामधिकारोऽस्ति न इति; किं प्राप्तम् ? नास्त्यधिकारस्तेषु मध्वादिष्विति जैमिनिर्मन्यते ; कुतः असम्भवात्-नह्यादित्यवस्वादिभिरूपास्या आदित्यवस्वादयोऽन्ये सम्भवन्ति । नच वस्वादीनां सतां वस्वादित्वं प्राप्यं भवति, प्राप्तत्वात् ; मधुविद्यायामृग्वेदादिप्रतिपाद्यकर्मनिष्पाद्यस्य रश्मिद्वारेण प्राप्तस्य रसस्याश्रयतया लब्धमधुव्यपदेशस्यादित्यस्यांशानां वस्वादिभिर्भुज्यमानानामुपा स्यत्वं वस्वादित्वंच प्राप्यं श्रूयते : “ असौ वा आदित्यो देवमधु" इत्युपक्रम्य २" तद्यत्प्रथमममृतं तद्वसव उपजीवन्ति" इत्युक्त्वा ३" स य एतदेवममृतं वेद सूनामेवैको भूत्वाऽग्निनैव मुखेनैतदेवामृतं दृष्ट्वा तृप्यति" इत्यादिना ।। ३० ।। ज्योतिषि भावाच्च । १ । ३ । ३१ ॥ ४" तं देवा ज्योतिषां ज्योतिरायुपासतेऽमृतम्” इति ज्योतिषि - परस्मिन्ब्रह्मणि उपासनं देवानां श्रूयते । देवमनुष्योभयसाधारणे परब्रह्मोपासने देवानामुपासकत्वकथनं देवानामितरोपासननिवृत्तिं द्योतयति । अत एy वस्वादीनामनधिकारः ॥ ३१ ॥ १. छा. ३-१-१ ॥ २. छा. ३-६-१ ॥ ] ३. छा. ३-६-३ ॥ ४. बृ. ६-४-१४ ॥. For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy