________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३०
वेदान्तदीपे
[अ.१. रिति व्याहरत् स भूमिमसृजत" इत्यादिका स्मृतिरपि-"सर्वेषाच स ना. मानि कर्माणि च पृथक् पृथक् । वेदशब्देभ्य एवादौ पृथक् संस्थाश्च निर्ममे" २" नामरूपञ्च भूतानां कृत्यानाञ्च प्रपञ्चनम् । वेदशब्देभ्य एवादी देवादीनाशकार सः" इत्यादिका ॥२७॥
___ अत एव च नित्यत्वम् ॥ यतः प्रजापतिः वैदिकाच्छब्दादकारं स्मृत्वा तदाकारं सर्व सृजति, अतश्च वसिष्ठविश्वामित्रादीनां मन्त्रसूक्तादिकत्वेऽपि मन्त्रादिमयस्य वेदस्य नित्यत्वं तिष्ठत्येव ; प्रजापतिर्हि नैमित्तिकप्रलयानन्तरम् ३" मन्त्रकृतो व्रणीते" ४"विश्वामित्रस्य सूक्तं भवति" इत्यादिवेदशब्दभ्योऽनधीतमन्त्रादिदर्शनशक्तवसिष्ठाद्याकृतिविशेषं स्मृत्वा , वसिष्ठत्वादिपदप्राप्तयेऽनुष्टितकर्मविशेषांश्चानुस्मृत्य, तदाकारविशेषांस्तान्वसिष्ठादीन् स. जति ; ते चानधीत्यैव वेदैकदेशभूतमन्त्रादीन् स्वरतो वर्णतश्चास्खलितान्पठन्ति तदेषां मन्त्रादिकृत्वेऽपि वेदनित्यत्वमुपपद्यते ॥ २८॥
प्रजापतिप्रभृतिषु सर्वेषु तत्त्वेष्वव्याकृतपर्यन्तेषु अव्याकृतपरिणामरूपेषु शब्दमयेषु वेदेषु च विनष्टेष्वव्याकृतसृष्टयावृत्तौ कथं वेदस्य नित्यत्वमित्यत आह
समाननामरूपत्वाच्चासत्तावप्यविरोधो दर्शनात स्मृतेश्च॥ अव्याकृतस. ष्टयावृत्तावपि सृज्यानां समाननामरूपत्वादेव न कश्चिद्विरोधः। आदिसर्गेऽपि हि परमपुरुषः पूर्वसंस्थानं जगत्स्मरन् तथैव सृजति; वेदांश्च पूर्वानुपूर्वीविशिटानाविष्कृत्य हिरण्यगर्भाय ददाति इति पूर्वसंस्थानमेव जगत्सृजतीति कथमवगम्यते-दर्शनात् स्मृतेश्च--दर्शनं - श्रुतिः, ५“अहोरात्राणि विदधद्विश्वस्य मिषतो वशी। सूर्याचन्द्रमसौ धाता यथापूर्वमकल्पयत् । दिवं च पृथिवीं चा. न्तरिक्षमथो सुवः” इति, ६" यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च प्रहिणोति तस्मै" इति च; स्मृतिरपि-७“यथर्तुष्वृतुलिङ्गानि नानारूपाणि पर्यये । दृश्यन्ते तानि तान्येव तथा भावा युगादिषु"इति।एतदेव वेदस्य नित्यत्वम्-यत्पूर्वपूर्वोच्चारणक्रमविशेषं स्मृत्वा तेनैव क्रमेणोश्चार्यत्वम् , परमपुरुषोऽपि ख१. मनु. १-२१॥
५. ते. नारा. ६-१-३८॥ २. वि. पु. १.५-६३ ॥
६. थे, ६-१८॥ ३. आपस्तम्बप्रवरखण्ड. १-७॥
७. वि. पु. १-५.६५॥ ४, का, ५, प्र. २. अनु. ४॥
For Private And Personal Use Only