SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३२९ पा..] देवताधिकरणम्. हरहरनुष्ठीयमानविवेकादिसाधनसप्तकसंस्कृत मनोनिष्पाद्योपासन निर्वृत्तौ तेषां सामर्थ्याभावात्। राद्धान्तस्तु-जगत्सृष्टिप्रकरणेषु नामरूपव्याकरण श्रुत्यैव देवादीनां विग्रहादिमत्त्वं सिध्यति।देवादीनां देहेन्द्रियादिकरणमेवहि नामरूपव्याकरणम् मन्त्रार्थवादयोश्च तदुपलब्धेः तयोरनुष्ठेयप्रकाशनस्तुतिपरत्वेऽपि त. दुपपत्तये तत्सद्भावे प्रमाणत्वाद्देवादीनां विग्रहादिमत्त्वसिद्धिः नहि विग्रहादिमतया स्तुतिः प्रकाशनं च तदभावे सम्भवति । अतस्सामर्थ्यसम्भवादस्त्येवाधिकारः-सूत्रार्थस्तु। तदुपर्यपि-तेभ्यः मनुष्येभ्यः उपरिवर्तमानानां देवादीना मप्यधिकारोस्ति, यद्वा। तत्-ब्रह्मोपासनम् , उपरि देवादिष्वपि सम्भवति; तेषामपि ब्रह्मवरूपतदुपासनप्रकारज्ञानतदर्थित्वतदुपादानसामर्थ्यसम्भवात् ; पूर्वोपार्जितज्ञानाविस्मरणात् ज्ञानसम्भवः तापत्रयाभिहतिपूर्वकब्रह्मगुणज्ञानाचार्थित्व सम्भवः, सृष्टिवाक्यमन्त्रार्थवादेषु विग्रहवत्त्वादिदर्शनात् सामर्थ्यसम्भवश्चेति भगवान् बादरायणः मन्यते ॥ २५ ॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् ॥ कर्मणि - यागादी, विग्रहवत्त्वे सति एकस्य युगपदनेकयागेषु सन्निधानानुपपत्तेः विरोधः प्रसज्यत इति चेत्-तन्न, शक्तिमतां सौभरिप्रभृतीनां युगपदनेकशरीरप्रतिपत्तिदर्श. नात् ॥ २६॥ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम् ॥ विरोध इति वर्तते ; माभूत्कर्मणि विरोधः, शब्दे तु वैदिके विरोधः प्रसज्यते, विग्रहवत्त्वे हि तेषां सावयवत्वेनोत्पत्तिविनाशयोगादुत्पत्तेः प्राक् विनाशादूर्ध्व च, वैदिकानामिन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादिति चेत् तन्न, अतः प्रभवात्-अतः वैदिकादेव शब्दात् इन्द्रादेः प्रभवात् ; पूर्वपूर्वेन्द्रादौ विनष्टे वैदिकादिन्द्राद्याकृतिविशेषवाचिनश्शब्दादिन्द्राद्याकृतिविशेषं स्मृत्वा तदाकारमपरमिन्द्रादिकं सृजति प्रजापतिरिति वैदिकस्य शब्दस्य न कश्चिद्विरोधः। न हि देवदत्तादिशब्दवदिन्द्रादिशब्दाः व्यक्तिविशेषे सङ्केतपूर्वकाः प्रवृत्ताः,अपि तु गवादिशब्दवदाकृतिविशेषवाचिन इति तेषामपि नित्य एव वाच्यवाचकभावः। वैदिकादिन्द्रादिशब्दात्तदर्थविशेषं स्मृत्वा कुलालादिरिव घटादिकं प्रजापतिस्सृजतीति कुतोऽवगम्यते प्रत्यक्षाऽनुमानाभ्यां-श्रुतिस्मृतिभ्यामित्यथः। श्रुतिस्तावत्-१"वेदेन रूपे व्याकरोत्सतासती प्रजापतिः" तथार “स भू१. यजु. अष्टके. २-प्र, ६-अनु. २॥ २. यजु. अष्टके. २-प्र. २-अनु. ४॥ 4" For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy