________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
૪૦
श्रीशारीरकमीमांसाभाग्ये
[अ. १.
ये तु निर्विशेषचिन्मानं ब्रह्मैव परमार्थ: : अन्यत्सर्वं मिथ्याभूतम् ; बन्धश्वापारमार्थिकः स च वाक्यजन्य वस्तुयाथात्म्यज्ञानमात्रनिवर्त्यः; तन्निवृत्तिरेव मोक्षः - इति वदन्ति; तैर्ब्रह्मज्ञाने शूद्रादेरनधिकारो वक्तुं न शक्यते; अनुपनीतस्य अनधीतवेदस्याश्रुतवेदान्तवाक्यस्यापि यस्मात्क - स्मादपि निर्विशेषचिन्मात्रं ब्रह्मैव परमार्थोऽन्यत्सर्वं तस्मिन्परिकल्पितं मिथ्याभूतमिति वाक्याद्वस्तुयाथात्म्यज्ञानोत्पत्तेः, तावतैव बन्धनिवृत्तेश्व । न च तत्त्वमस्यादिवाक्येनैव ज्ञानोत्पत्तिः कार्या न वाक्यान्तरेणेति नियन्तुं शक्यम् ; ज्ञानस्यापुरुषतन्त्रत्वात्, सत्यां सामग्रयामनिच्छतोऽपि ज्ञानोत्पत्तेः । नच वेदवाक्यादेव वस्तुयाथात्म्यज्ञाने सति बन्धनिवृत्तिर्भवतीति शक्यं वक्तुम्, येनकेनापि वस्तुयाथात्म्यज्ञाने सति भ्रान्तिनिवृत्तेः पौरुयादपि निर्विशेषचिन्मात्रं ब्रह्म परमार्थोऽन्यत्सर्वं मिथ्याभूतमिति वाक्यात् ज्ञानोत्पत्तेस्तावतैव भ्रमनिवृत्तेश्च । यथा पौरुषेयादप्याप्तवाक्याच्छुक्तिकारजतादिभ्रान्तिर्ब्राह्मणस्य शूद्रादेरपि निवर्तते, तद्वदेव शूद्रस्यापि वेदवित्सम्प्रदायागतवाक्याद्वस्तुयाथात्म्यज्ञानेन जगद्भमनिवृत्तिरपि भविव्यतिः १ " नचास्योपदिशेद्धर्मम्" इत्यादिना वेदविदश्शूद्रादिभ्यो न वदन्तीति च न शक्यं वक्तुम्, तत्त्वमस्यादिवाक्यावगतब्रह्मात्मभावानां वेदशिरसि वर्तमानतया दग्धाखिलाधिकारत्वेन निषेधशास्त्रकिङ्करत्वाभावात्, अतिक्रान्तनिषेधैर्वा कैश्चिदुक्ताद्वाक्याच्छूद्रादेः ज्ञानमुत्पद्यत एव न च वा
- शुक्तिकादौ रजतादिभ्रमनिवृत्तिवत्पौरुषेयवाक्य जन्यतत्त्वज्ञानसमनन्तरं शूद्रस्य जगद्भमो न निवर्तत इति तत्त्वमस्यादिवाक्यश्रवणसमनन्तरं ब्राह्मणस्यापि जगद्भमानिवृत्तेः । निदिध्यासनेन द्वैतवासनायां निरस्तायामेव तत्त्वमस्यादिवाक्यं निवर्तकज्ञानमुत्पादयतीतिचेत् - पौरुषेयमपि वाक्यं शूद्रास्तथैवेति न कश्चिद्विशेषः । निदिध्यासनं हि नाम ब्रह्मा
१. मनु. ४-८० ॥
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only