SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पा. ३.] देवताधिकरणम् क्तः प्रजास्सृज महामते " ; तथा १" परो नारायणो देवस्तस्माज्जातश्चतुर्मुखः" इति । तथा २" आदिसर्गमहं वक्ष्ये" इत्यारभ्योच्यते - ३ “सृष्ट्वा नारं तोयमन्तस्थितोऽहं येन स्यान्मे नाम नारायणेति । कल्पेकल्पे तत्र शयामि भूयस्सुप्तस्य मे नाभिजं स्याद्यथाऽब्जम् । एवंभूतस्य मे देवि नाभिपद्मे चतुर्मुखः । उत्पन्नस्स मया चोक्तः प्रजास्सृज महामते " इति ॥ Acharya Shri Kailassagarsuri Gyanmandir अतो देवादीनामप्यर्थित्व सामर्थ्ययोगाद्ब्रह्मविद्यायामधिकारोऽस्तीति सिद्धम् ।। २९ ॥ इति श्रीशारीरकमीमांसाभाष्ये देवताधिकरणम् ॥ ७ ॥ २. " वेदान्तसारे - तदुपर्यपि बादरायणस्सम्भवात् । तत् ब्रह्मोपासनम् ; उपरि देवादिष्वप्यस्ति, अर्थित्वसामर्थ्यसम्भवादिति भगवान् बादरायणः मेने; सम्भवश्च पूर्वोपार्जितज्ञानाविस्मरणात् मन्त्रार्थवादेषु विग्रहादिमत्तया स्तुतिदर्शनात् तदुपपत्तये तत्सम्भवे तेषामेव प्रामाण्येन विग्रहादिमत्त्वाच्च ॥ २५॥ विरोधः कर्मणीति चेन्नानेकप्रतिपत्तेर्दर्शनात् । विग्रहादिमत्वे एकस्यानेकत्र युगपत्सान्निध्यायोगात् कर्मणि विरोधः - इति चेन्न, शक्तिमत्सु सौभरि प्रभृतिषु युगपदनेकशरीरप्रतिपत्तिदर्शनात् ॥ २६ ॥ " ३२७ शब्द इति चेन्नातः प्रभवात्प्रत्यक्षानुमानाभ्याम्।। वैदिके तु शब्दे विरोधप्रसक्तिः देहस्य सावयवत्वेनोत्पत्तिमत्वादिन्द्रादिदेवोत्पत्तेः प्राकू विनाशादूर्ध्वञ्च वैदिकेन्द्रादिशब्दानामर्थशून्यत्वमनित्यत्वं वा स्यादितिचेन, अतः वैदिकादेवेन्द्रादिशब्दादिन्द्राद्यर्थसृष्टेः । नहीन्द्रादिशब्दाः व्यक्तिवाचकाः ; अपि तु गवादिशब्दवदाकृतिवाचिनः पूर्वस्मिन्निन्द्रादौ विनष्टे वैदिकेन्द्रादिशब्दादेव ब्रह्मा पूर्वेन्द्राद्याकृतिविशेषं स्मृत्वा तदाकारमपरम् इन्द्रादिकं कुलालादिवि घटादिकं सृजतीति नकश्चिद्विरोधः । कुत इदमवगम्यते ? श्रुतिस्मृतिभ्याम् । श्रुतिः ४'वेदेन रूपे व्याकरोत् सतासती प्रजापतिः” ५'स भूरिति व्याहरत् स ४. अष्ट. २. प्र. ६. अनु २ ॥ ५. अष्ट. २. प्र, २ ॥ For Private And Personal Use Only
SR No.020696
Book TitleSharirik Mimansa Bhashye Part 01
Original Sutra AuthorN/A
AuthorA V Narsimhacharya
PublisherA V Narsimhacharya
Publication Year1909
Total Pages465
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy