________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
श्रीशारीरकमीमांसाभाष्ये वेदनित्यत्ववादिना देवादीनां विग्रहवत्त्वाभ्युपगमेऽपि लोकव्यवहारस्य प्रवाहानादिताऽऽश्रयणीयेति । अत्रोत्तरं पठतिसमाननामरूपत्वाचावृत्तावप्यविरोधो दर्शनात्
स्मृतेश्च । १।३।२९॥ कृत्स्नोपसंहारे जगदुत्पत्त्यावृत्तावपि पूर्वोक्तासमाननामरूपत्वादेव न कश्चिद्विरोधः। तथाहि-स भगवान्पुरुषोत्तमः प्रलयावसानसमये पूर्वसंस्थानं जगत्स्मरन् १" बहु स्याम्" इति सङ्कल्प्य भोग्यभोक्तृजातं स्वस्मिन् शक्तिमात्रावशेषं प्रलीनं विभज्य महदादिब्रह्माण्डं हिरण्यगर्भपर्यन्तं यथापूर्व सृष्ट्वा वेदांश्च पूर्वानुपूर्वीविशेषसंस्थितानाविष्कृत्य हिरण्यगर्भायोपदिश्य पूर्ववदेव देवाद्याकारजगत्सर्गे तं नियुज्य स्वयमपि तदन्तरात्मतयाऽवतस्थे । अतो यथोक्तं सर्वमुपपन्नम् । एतदेव च वेदस्यापौरुषेयत्वं नित्यत्वं च, यत्पूर्वपूर्वोच्चारणक्रमजनितसंस्कारेण तमेव क्रमविशेष स्मृत्वा तेनैव क्रमेणोच्चार्यत्वम् । तदस्मासु सर्वेश्वरेऽपि समानम् । इयांस्तु विशेषः-संस्कारानपेक्षमेव स्वयमेवानुसन्धत्ते पुरुषोतमः । कुत इदं यथोक्तमवगम्यत इति चेत् तत्राह-दर्शनात् स्मृतेश्च । दर्शनं तावत् २“यो ब्रह्माणं विदधाति पूर्व यो वै वेदांश्च पहिणोति तस्मै" इति । स्मृतिरपि मानवी ३"आसीदिदं तमोभूतम्" इत्यारभ्य "सोऽभिध्याय शरीरात्स्वात्सिसक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यमपासृजत् ॥ तदण्डमभवबै सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः" इति । तथा पौराणिकी ४" तत्र सुप्तस्य देवस्य नाभौ पद्ममजायत। तस्मिन्पझे महाभाग वेदवेदाङ्गपारगः।। ब्रह्मोत्पन्नस्स तेनो
| ३. मनु. १.५-८, ९॥
१. छा. ६-२-३ ॥ २. श्वे. ६.१८॥
For Private And Personal Use Only